________________
आगम
(४२)
प्रत सूत्रांक/
गाथांक
||५||
दीप
अनुक्रम
[4]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| निर्युक्ति: [१३९], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education i
व्याख्या - मुरादेवास्तैः पूजितः सुरपूजितः, सुरग्रहणमिन्द्राद्युपलक्षणम्, इतिशब्द उपप्रदर्शने, कोऽयम् ?'हेतु:' पूर्ववत्, हेत्वर्थसूचकं चेदं वाक्यम्, हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्यः अस्यैव सिद्धतां दर्शयति - 'धर्मः' पूर्ववत् तिष्ठत्यस्मिन्निति स्थानम्, धर्मश्चासौ स्थानं च धर्मस्थानम्, स्थानम् - आलय:, तस्मिन् स्थिताः, तुरयमेवकारार्थः, स चावधारणे, अयं चोपरिष्टात् क्रियया सह योक्ष्यते, 'यद्' यस्मात्, किंभूते घ मस्थाने?-'परमे' प्रधाने, किम् ? - सुरेन्द्रादिभिः पूज्यन्त एवेति वाक्यशेषः, इति तृतीयोऽवयवः, अधुना चतुर्थ उच्यते-हेतुविभक्तिरियम् - हेतुविषयविभागकथनम्, अथ क एते धर्मस्थाने स्थिता इत्याह- 'निरुपधयः' उपधिः छद्म मायेत्यनर्थान्तरम्, अयं च क्रोधाद्युपलक्षणम्, ततश्च निर्गता उपध्यादयः सर्व एव कषाया येभ्यस्ते निरुपधयो - निष्कषायाः, 'जीवानां' पृथ्वीकायादीनाम् 'अवधेन' अपीडया, चशब्दात्तपश्चरणादिना च हेतुभूतेन 'जीवन्ति' प्राणान् धारयन्ति ये त एव धर्मस्थाने स्थिताः, नान्य इति गाथार्थः ॥ १३९ ॥ उक्तचतुर्थोऽवयवः, अधुना पञ्चममभिधित्सुराह
जिणवयणपदुद्वेवि हु समुराईए अधम्मरुइणोऽवि । मंगलबुद्धीइ जणो पणमइ आईंदुयधिवक्सो ॥ १४० ॥ व्याख्या - इह विपक्षः पञ्चम इत्युक्तम् स चायम्-प्रतिज्ञाविभक्त्योरिति, जिना:- तीर्थकराः तेषां वचनम् - आगमलक्षणं तस्मिन् प्रद्विष्टा- अप्रीता इति समासस्तान्, अपिशब्दादप्रद्विष्टानपि, हु इत्ययं निपातोऽवधा
१ विपक्षः प्रतिज्ञाविभक्त्योः सरका
For ne&Personal Use City
~ 162~
brary dig