________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१०१||
दीप
अनुक्रम [१२२]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२२]
• "निर्युक्तिः [ १०१] + भाष्यं [ २१...] + प्रक्षेपं " FO
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
पिण्डनिर्युतेर्मलयगि रीयाहृतिः
॥। ४१ ।।
व्याख्या — आधाकर्म्मग्राही विशुद्धेभ्यः संयमादिस्थानेभ्यो ऽवतीर्य 'अध:' अधोऽधोवर्तिषु होनेषु हीनतरेषु भावेषु वर्त्तमानोऽधोभवस्य रत्नप्रभादिनारकरूपस्य भवस्य सम्बन्धि आयुः 'करोति' बध्नाति, शेषाण्यपि कर्माणि गत्यादिनामादीनि 'अधोमुखानि' अधोगत्य भिमुखानि अधोगतिनयनशीलानि इत्यर्थः, 'प्रकरोति' प्रकर्षेण दुस्सहकटुकतीवानुभावयुक्ततया करोति-बध्नाति, बद्धानां च सतामाधाकविषयपरिभोगला म्पयवृद्धितो निरन्तरमुपजायमानेन 'तीव्रण' तीव्रतरेण 'भावेन' परिणामेन घनकरणं यथायोगं निधेत्तिरूपतया निकाचनारूपतया वा व्यवस्थापनं, तथा प्रतिक्षणमन्यान्यपुद्गलग्रहणेन चय उपचयथ, तत्र स्तोकतरा दृद्धिश्रयः प्रभूततरा वृद्धिरुपचयः, एतेन च व्याख्याप्रज्ञ सिसूत्रमाचार्येणानुवर्तितं तथा च व्याख्यामज्ञतावालापकः - "आहाक में णं जमाणे समणे निमांये अडकम्मपगडीओ बंधइ अहे पकरेइ अहे चिणइ अहे उवचिणइ" इत्यादि । तत एवं सति
तेसिं गुरुणमुदएण अप्पगं दुग्गईऍ पवडतं । न चएइ विधारेउं अहरगतिं निति कम्माई ॥ १०२ ॥
व्याख्या—' तेषाम् ' अधोभवायुरादीनां कर्म्मणां 'गुरूणां ' अधोगतिनयनस्वभावतया गुरूणीव गुरूणि तेषाम्, 'उदयेन ' * विपाकवेदनानुभवरूपेण, विपाकवेदनानुभवरूपोदयवशादित्यर्थः, दुर्गती प्रपतन्तमात्मानं ' विधारयितुं ' निवारयितुम् आधाकर्म्मग्राही न * शक्नोति यतोऽतः कर्माणि अधोभवायुरादीनि उदयप्राप्तानि वलादू 'अधरगतिं ' नरकादिरूपां नयन्ति न च कर्म्मणां कोऽपि वलीयान,
१ स्थित्यनुभागयोवृहत्करणमुद्रर्त्तना, तयोरेव म्हस्वीकरणमपवर्त्तना, उत्तनाऽपवर्त्तनावशेषसङ्कमा किरणायोग्यत्वेन व्यवस्थापनं निवन्तिः, ॐ समस्तकरणायोग्यत्वेन व्यवस्थापनं निकाचना, [ सङ्क्रमः प्रकृतिस्थित्यनुभागप्रदेशानामन्य कर्मरूपतया स्थितानामन्यकर्मस्वरूपेण व्यवस्थापनम्, आदिशब्देनोदीरणोपशमने गृह्येते ] । २ आधाकर्म भुञ्जानः श्रमणो निर्मन्थोऽ कर्मप्रकृतीनाति अबः प्रकरोति अवचिनोति अब उपचिनोति ।
Ecation Internationa
For Peas Use Only
~93~
अधःकर्मताहेतुः
॥ ४१ ॥
p