________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [१०५] . "नियुक्ति: [१०] + भाष्यं [१५...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
उद्मशुद्ध
पिण्डनियु- केमेलयगि- रीयावृत्तिः
मोक्षहेनुता
प्रत गाथांक नि/भा/प्र ||२०||
॥३४॥
दीप
100०००००००००००००००००००००००००
यदुक्तं-'चारित्रोद्गमेनाधिकार' इति, तत्र चारित्रस्योद्गमेनाधिकारः शुद्धस्य द्रष्टव्यो, नाशुद्धस्य, अशुद्धस्य मोक्षलक्षणकार्यसम्पादकत्वायोगात्, न खलु धीजमुपहतमकुरं जनयति,सर्वत्राप्यनुपहतस्यैव कारणस्य कार्यजनकत्वात् , चारित्रस्य च शुद्धेः कारणं द्विपा, तयथा- आन्तरं वाद्यं च, ते द्वे अपि प्रतिपादयति
दसणनाणप्पभवं चरणं सुद्धेसु तेसु तस्सुद्धी । चरणेण कम्मसुद्दी उग्गमसुद्धा चरणसुद्धी ॥ ११ ॥
व्याख्या-इह यतो ज्ञानदर्शनमभवं चारित्रं, ततस्तयोः शुद्धयोस्तस्य चारित्रस्य शुद्धिर्भवति नान्यथा, तस्मादवश्यं चारित्रशुद्धिनिमित्तं चारित्रिणा सम्यग्ज्ञाने सम्यग्दर्शने च यतितव्यं, यत्नच निरन्तरं सद्गुरुचरणकमलपर्युपासनापुरस्सरं सर्वज्ञमतानुसारितोगमशास्त्राभ्यासकरणम्, एतेन चारित्रशुद्धेरान्तरं कारणमुक्तम्, अथ चारित्रशुद्धयाऽपि किं प्रयोजनं येनेत्यं तच्छुद्धिरन्वेष्यते ?, अत आह-चरणेन कर्मशुद्धिा, चरणेन विशुद्धेन कर्मणो-ज्ञानावरणीयादिकस्य शुद्धिः-अपगमो भवति, तदपगमे चात्मनो यथाऽवस्थितस्वरूपलाभात्मको मोक्षः, ततो मोक्षार्थिना चरणशुद्धिरपेक्ष्यते, तथा न केवलयोरेव ज्ञानदर्शनयोः शुद्धौ चारित्रशुद्धिः किन्तुद्मशुद्धौ चारित्रशुद्धिः । एतेन वाह्य कारणमुक्तं, ततश्चरणशुद्धिनिमित्तं सम्यग्दर्शनज्ञानवतापि नियमत उद्गमदोषपरिशुद्ध आहारो ग्राह्यः ॥ ते चोद्गमदोषाः षोडश, तानेव नामतो निर्दिशति
आहाकम्मदेसिय पूईकम्मे 2 मीसजाएँ य । ठवर्णा पाहुडियाएं पाओअर कीर्यं पामिच्चे ॥ ९२ ॥ परियट्टिएँ अभिहँडे उब्भिन्ने" मालोहडे" इय । अच्छिजे" अणिसँढे अज्झोयर, य सोलसमे ॥ ९३ ॥
अनुक्रम [१०५]
~79