SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः ) मूलं [१०५] . "नियुक्ति: [१०] + भाष्यं [१५...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२०|| दीप दोषपभावतोऽधोबातोऽतीय प्रतिगन्धिनिर्जगाम, तद्भन्धपुद्गलाश्च सर्वतः परिभ्रमन्तस्तन्नासिका प्रविविशुः, ततस्तं तथारूपं पूतिगन्धमाघ्रया चिन्तयामास, यथाऽमी मोदका घृतगुडकणिकादिनिष्पन्नास्ततः शुचिद्रव्यसमुत्था एवैते केवलमयं यो देहो जननीशोणितजनक्शुक्ररूपद्विधामलमभवत्वादशुचिरूपः, तत्सम्पर्यवशतोऽशुचिरूपा जाताः, दृश्यन्ते च कर्पूरादयोऽपि पदार्थाः स्वरूपतः सुरभिगन्धयोऽपि देहसम्प-18 केतः क्षणमात्रेण दुरभिगन्धयो जायमानाः, क्षणान्तरे शरीरगन्धस्यैव पूत्पात्मकस्योपलम्भात् , तत इत्यमशुचिरूपस्यानेकापायशतसकुलस्य शरीरस्यापि कृते ये गृहमासाद्य नरकादिकुगतिविनिपातकारीणि पापकर्माणि सेवन्ते ते सचेतना अपि मोहमयनिद्रोपहतविवेकचेतनत्वादचेतना एव परमार्थतो बेदितव्याः, यदपि च तेषां शास्त्रादिपरिज्ञानं वदपि परमार्थतः शरीरायासफलं, यद्वा तदपि पापानुवन्धिकम्मोदयतस्तथाविधक्षयोपशमनिवन्धनत्वादशुभकर्मकार्यवेति तस्ववेदिनामुपेक्षास्पदं, विद्वचा हि सा तत्त्ववेदिनां प्रशंसाहो या यथाऽवस्थितं वस्तु विविच्य हेयोपादेयहानोपादानप्रवृत्तिफला, या तु सकलजन्माभ्यासमवृत्या कथमपि परिपाकमागवाऽपि सती सदैव तथाविधपापकम्मोदयवशत एकान्ताशुचिरूपेष्वपि युवतिजनवदनजघनवक्षोरुहादिशरीरावयवेषु रामणीयकव्यावर्णनफला सा इहलोकेऽपि शरीरायासफला परलोके च कुगतिविनिपातहेतुरित्युपेक्षणीया, ये पुनः परमर्पयः सर्वदैव सर्वज्ञमतानुसारितोगमशाखाभ्यासतो विदितय थाऽवस्थितहेयोपादेयवस्तव इत्थं शरीरस्याशुचिरूपतां परिभाष्य युवतिकलेघरेषु नाभिरज्यन्ते नापि कम्मोणि स्वशरीरकृते पापानि समाचिरन्ति किन्तु शरीरादिनिस्पृहतया निरन्तरं सम्यक्शास्त्राभ्यासतो ज्ञानामृताम्भोधिनिमनाः सममित्रशत्रवः परिषहादिभिरजिताः सक लकम्मनिम्मूलनाय यतन्ते ते धन्यास्ते तत्त्वेदिनस्तानहं नमस्करोमि तदनुष्ठितं च मार्गमिदानीमनुतिष्ठामि, इत्येवं तस्य मोदकमियस्य || कुमारस्य वैराग्योद्गमेन सम्यग्दर्शनज्ञानचारित्राणामुद्रमो बभूक, ततः केवलज्ञानोद्गम इति ॥ तदेवमुक्तं मोदकप्रियकुमारकथानकं, सम्पति अनुक्रम [१०५] ~78~
SR No.035033
Book TitleSavruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy