________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१६] » “नियुक्ति: [८१] + भाष्यं [१५...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||८१||
दीप
क्षणे दौडदमजायत, दौडदे चासम्पद्यमाने तस्याः खेदवशतः शरीरस्य दौर्बल्यमभवत्, तब दृष्ट्वा नृपतिः सखेदं तां पृष्टवान् , यथा-दा। प्रिये ! किमतीव शरीरे तब दौर्बल्यमजायत !, ततः सा दोहदमचकयत । ततो राजा सत्वरं कनकटकुरकानयनाव पुरुषान् प्रेषितवान् , तिऽपि च पुरुषाः स्वचेतसि चिन्तयामासुः-इह यस्य यदलभं स तत्रासक्तः सन् प्रमादभावं भजमानः मुखेनैव बध्यते, कनकपृष्ठानां च कुरगाणामिष्टानि श्रीपीफलानि, सानि च सम्पति न विद्यन्ते, ततस्तत्सदृशान्मोदकान् कृत्वा श्रीपणांक्षतळेषु सर्वतः पुञ्जकपुञ्जका-|| कारेण क्षिप्त्वा तेषां समीपे पाशान स्थापयाम इति तथैव कृतं, ते च कनकपृष्ठा रुरवो निजेन यूधाधिपतिना सह स्वेच्छया परिभ्रमन्तस्तत्रागता:, यूथाधिपतिय श्रीपणीफलाकारान् पुञ्जकपुञ्जकस्थितान्मोदकानवलोक्य मृगानुक्तवान् , यथा--भो रुखो ! युष्माकं बन्धनार्थमिदं केनापि धूर्तेन कृतं कूटं वर्तते, यत्तो न सम्पति श्रीपर्णीफलानि सम्भवन्ति, न च सम्भवन्त्यपि पुञ्जकपुञ्जकाकारेण घटन्ते, अथ : मन्पेयास्तथाविधपरिभ्रमद्वातसम्पर्कतः पुजकपुञ्जकाकारेण घटन्ते, तदप्ययुक्तं, ननु पुरापि वाता वान्ति स्म, न तु कदाचनाप्पेवं पुञ्जकपु-18 अकाकारण भवन्ति स्म, तथा चैतदेव नियुक्तिकारः पठति
विइअमेयं कुरंगाणं, जया सीवन्नि सीयइ । पुरावि वाया वायंता न उणं पुंजकपुंजका ॥ ८२ ॥
व्याख्या-'विदित' प्रतीतम् , एतत्कुरगाणां यदा श्रीपणी 'सीदति' धातूनामनेकार्थत्वाकलति, तस्मान्नेदानी फलानि सम्भवन्ति, सम्भवन्तु वा तथाऽपि कथं पुजकपुञ्जकाकारेण स्थितानि !, वातशाचेन्ननु पुरापि वाता वान्ति स्म, न पुनरेवं पुञ्जकपुञ्जकाः फलानामभवन, तस्मास्कूटमिदमस्माकं बन्धनाय कृतं वत्तते इति मा यूयमेतेषामुपकण्ठं गमत, एवमुक्ते यैस्तद्वचः प्रतिपनं ते दीर्घजीचिनो बनेषु खेच्छाविहारसुखभागिनश्चाजायन्त, यस्त्वाहारलम्पटतया तदवो न प्रतिनं ते पाशवन्धनादिदुःखमागिनोऽभवन् । इह या
अनक्रम
~72