________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||७३||
दीप
अनुक्रम [८]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [८८] • → “निर्युक्तिः [ ७३]
भाष्यं [ १५...] + प्रक्षेपं " ८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
एसण गवेसणा भग्गणा य उग्गोवणा य बोद्धव्या । एए उ एसणाए नामा एगडिया होंति ॥ ७३ ॥
व्याख्या -- एषणा गवेषणा मार्गणोद्रोपना एतानि चशब्दादन्वेषणाप्रभृतीनि चैषणाया एकार्थिकानि नामानि भवन्ति, तत्र 'इ इच्छायां एषणम् एषणा इच्छा, गवेषणा-अन्वेषणा गवेषणं गवेषणा, मार्गणं मार्गणा, उद्रोपनम् उद्रोपना ।। एवं नामान्यभिधाय सम्मति भेदानभिधित्सुराह
+
नाठवणा दविए भावंय एसणा मुणेयव्या । दव्वे भावे एक्केकया उ तिविहा मुणेयव्या ॥ ७४ ॥
व्याख्या - एषणा चतुर्विधा ज्ञातव्या, तथथा - नामैषणा स्थापनैषणा तथा 'द्रव्ये ' द्रव्यविषयेपणा भावे 'भावविषया च तत्र नामैषणा एषणा इति नाम यद्वा --- जीवस्याजीवस्य वैषणाशब्दान्वर्थरहितस्य एषणा इति नाम क्रियते स नामनामवतोरभेदोपचारात्, यद्वानाम्ना एषणा नामैषणा इति व्युत्पत्तेर्नामैषणेत्यभिधीयते, स्थापनैपणा एषणावतः साध्वादेः स्थापना, इषणा साध्यादेरभिन्ना तत उपचा रात्साध्वादिरेव एषणेत्यभिधीयते, ततः स स्थाप्यमानः स्थापनैषणा, स्थाप्यते इति स्थापना स्थापना चासौ एवणा च स्थापनैषणा, द्रव्येपणा द्विधा - आगमतो नोआगमतञ्च तत्राऽऽगमत एषणाशब्दार्थस्य ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात्, नोआग२ मतविधा, सद्यथा ज्ञशरीरद्रव्यैषणा भव्यशरीरद्रव्यैषणा ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यैषणा च तत्रैषणाशब्दार्थज्ञस्य यच्छरीरमपगतजीवितं सिद्धशिलातलादिगतं तद्भूतभावतया ज्ञशरीरद्रव्यैषणा, यस्तु वालको नेदानीमेपणाशब्दार्थमवबुध्यते अथ चायत्यां तेनैव शरीरसमु च्छ्रयेण परिवर्द्धमानेन भोत्स्यते स भाविभावकारणत्वाद्भव्यशरीरद्रव्यैषणा, ज्ञशरीरभव्यशरीरव्यतिरिक्ता तु द्रव्यैपणा सचित्तादिद्रव्यविप
Eucation Internation
'एषणा संबंधी कथनं आरभ्यते
For Palsta Use Only
~68~
waryra