________________
आगम
(४१/२)
प्रत
गाथांक नि/भा/प्र
||६३||
दीप
अनुक्रम [ ७८ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ७८ ] • → “निर्युक्तिः [ ६३ ] + भाष्यं [१५] + प्रक्षेपं [ ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२] मूलसूत्र - [०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
व्याख्या - प्रशस्तो प्रशस्तश्च भावपिण्डः प्रत्येकं दशविधः दशमकारः, किंरुपः ? इत्याह-' एकविधादिकः ' एकविधो द्विवि धस्त्रिविधचतुर्विधो यावदशविध इति, तंत्र प्रथमत उद्देशक्रमप्रामाण्यानुसरणात्प्रशस्तं भावपिण्डं दशविधमप्यभिदधाति -'सञ्जने'त्यादि, तंत्रकवियः प्रशस्तो भावपिण्डः संयमः इह संयमो ज्ञानदर्शने विना न भवति, पूर्वद्रयलाभः पुनरुत्तरलाभे भवति सिद्ध:' इति वचनप्रामाण्यात्, ततो ज्ञानदर्शने संयम एवान्तर्भूते विवक्षिते इति संयम एवैकः प्रशस्तभावपिण्डत्वेन प्रतिपाद्यमानो न विरुध्यते, द्विविधः पिण्डो ९) 'विद्याचरणे' विद्या-ज्ञानं चरणं क्रिया, अत्र सम्यग्दर्शनं ज्ञान एवान्तर्भूतं विवक्षितमिति न पृथग्गणितं विवक्षा हि वक्त्रधीना, वक्ता च कदाचित्संक्षेपेणाभिधित्सुस्तां तां प्रत्यासत्तिमधिकृत्य तचदन्तर्भावेनाभिधत्ते कदाचित्पुनर्विशेषपरिज्ञानोत्पादनाय विस्तरेणाभिधित्सुः सर्व वैविक्त्येन पृथक् प्रतिपादयति, ततः कदाचित् ज्ञानादित्रिकं संयम इति प्रतिपाद्यते कदाचित् ज्ञानक्रिये इति कदाचित्पुनः परिपूर्णमपि साक्षाद्यथा ज्ञानादित्रिकमिति न कविदोषः, त्रिविधः पिण्डः पुनः 'ज्ञानादित्रिकं ' ज्ञानदर्शन चारित्राणि चतुर्विधः पिण्डो ज्ञानदर्शन तप: संयमाः, पञ्चविधः पञ्च व्रतानि-प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहनिवृत्तिलक्षणानि अत्रापि ज्ञानदर्शने अन्तर्भूते विवक्षिते इति न पृथगणिते, रात्रिभोजनविरमणमध्येतेषु पञ्चसु यथायोगमन्तर्भूतं विवक्षितं ततो न पञ्चविधत्वव्याघातः, एवमुत्तरत्वापि यथायोगमन्तर्भावभावना भावनीया, षड़िधो भावपिण्डः - पडू व्रतानि, तत्र पञ्च व्रतानि पूर्वोक्तान्येव प्राणातिपातविरमणादीनि षष्ठं तु रात्रिभोजनविरमणलक्षणं, तथा सप्तविधे पिण्डे सप्त पिण्डेषणाः सप्त पानैषणाः सप्त अग्रहमतिमाः, तत्र पिण्डैषणाः पानैषणाथ सप्त संसृष्टादयः, तामा:-'संसदम
१ अप्रतिमाः सप्त अवगृह्यते इत्यवमहस्तस्य प्रतिमा अभिप्रहाः, तत्र पूर्वमेवैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति विचिन्त्य तमेव याचित्वा गृहतः प्रथमा १ तथा यस्यैवंभूतोऽभिग्रहो भवति-अहं खल्बन्येषां कृतेऽयमहं महीष्यामि, अन्यैश्च गृहीतेऽवमहे वत्स्यामीति द्विती
Education Internation
For Parts Only
~60~