________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५९३||
दीप
अनुक्रम
[६३५ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्तिः [५९३] + भाष्यं [ ३७...] + प्रक्षेपं [६...
मूलं [६३५]
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
पिण्डनिर्युकैर्मलयगिरीयावृत्तिः
।। १६२ ।।
सच्चाव्याघातः अपि च तथाभूतस्य महत उत्पादने दाभ्या पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते । सम्मति साधारणं चोरितकं वा ददत्या दोषानाह
साधारण बहूणं तत्थ उ दोसा जहेब अणिसिहे । चोरियए गहणाई भयए सुण्हाइ वा दंते ॥ ५९४ ॥
व्याख्या - बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्रागनिसृष्टे दोषा उक्तास्तथैव द्रष्टव्याः । तथा चौर्येण भृतके - कर्म करे स्नुपादौ वा ददति 'ग्रहणादयः ' ग्रहणबन्धनताडनादयो दोषा द्रष्टव्याः, तस्मात्ततोऽपि न कल्पते । सम्मति प्राभृतिका स्थापनादिद्वारत्रयदोषानाह
पाहुडि ठवियगदोसा तिरिउड्ढमहे तिहा अवायाओ । धम्मियमाई ठवियं परस्स परसंतियं वावि ॥ ५९५ ॥
व्याख्या– प्राभृतिकां बल्यादिनिमित्तं संस्थाप्य या ददाति भिक्षां तत्र दोषाः प्रवर्त्तनादयः । सम्प्रति 'अपाये 'ति द्वारेऽपायात्रिविधाः, तद्यथा— तिर्यगूर्द्धमघव, तत्र तिर्यगवादिभ्य ऊर्द्धमुरङ्गकाष्ठादेरथः सर्पकण्टकादेः इत्थं च त्रिविधानामप्यपायानामन्यतममपायं बुद्धधा सम्भावयन्न ततो भिक्षां गृह्णीयात्, 'परं चोदिश्ये 'ति यदुक्तं, तत्राद' धार्मिकाद्यर्थम् ' अपरसाधुकापटिकप्रभृतिनिमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृहीयात्, तग्रहणेऽदत्तादानदोपसम्भवात्, यद्वा 'परसंतियं व 'त्ति परस्यग्लानादेः सत्कं यद्ददाति तदपि स्वयपादातुं न कल्पते, अदत्तादानदोषात, किन्तु यस्मै ग्लानाय दापितं तस्मै नीत्वा दातव्यं स चेन्न गृह्णाति तहि भूयोऽपि दात्र्याः समानीय समर्पणीयं यदि पुनरेवं दात्री बदति-यदि उळानादिको न गृह्णाति तर्हि स्वयं ग्राह्यमिति, तर्हि ग्लानाद्यग्रहणे तस्य कल्पत इति । सम्मत्याभोगानाभोगदायक स्वरूपमाह -
For Para Use Only
~ 335~
एषणायां
दायक
दोषः ४०
॥ १६२ ॥
wor