________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||३७६||
दीप
अनुक्रम [ ४०६ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ ४०६ ] ● → “निर्युक्तिः [३७६] + भाष्यं [ २७...] + प्रक्षेपं [४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - ४१/२], मूलसूत्र - [०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि रचिता वृत्तिः
८०
सार्थमानुषाणां बलादाच्छिय भक्तादि प्रयच्छन्ति तर्हि न ग्राह्यं यतो मा भूत् 'निच्छोभः ' सार्थान्निष्काशनं एकानेकसाधूनां तेभ्यो ॐ भक्तादिव्यवच्छेदो वा, यदि पुनस्तेऽपि सार्थिका स्तैनैर्बलादाप्यमाना एवं ब्रुवते यच्चास्माकमहो घृतसक्तदृष्टान्त उपातिष्ठत, घृतं हि सक्तुमध्ये प्रक्षिप्तं विशिष्टसंयोगाय जायते, एवमस्माकमप्यवश्यं चौरैर्ग्रहीतव्यं ततो यदि चौरा अपि युष्मभ्यं दापयन्ति ततो महानस्माकं समाधिरिति तत एवं सार्थिकैरनुज्ञाताः साधवो दीयमानं गृहन्ति, पञ्चाचौरेच्यपगतेषु भूयोऽपि सद्रव्यं गृहीतं तेभ्यः समर्पयन्ति, यथा * तदानीं चौरप्रतिभयादस्माभिर्गृहीतं, सम्पति ते गतास्तत एतदात्मीयं द्रव्यं यूयं गृह्णीयेति, एवं चोक्ते सति यदि तेऽपि समनुजानते || * यथा-युष्मभ्यमेतदस्माभिर्दत्तमिति तर्हि भुञ्जते, कल्पनीयत्वादिति । अनेन 'कप्पणुन्नायं' इत्यवयवो व्याख्यातः । तदेवमुक्तमाच्छेद्य* द्वारम् इदानीमनिसृष्टद्वारमाह- ●
अणिसिद्धं पडिकुटुं अणुनायं कप्पए सुविहियाणं । लड्डुग चोल्लग जंते संखडि खीरावणाईसु ॥ ३७७ ॥
व्याख्या — निसृष्टम् — अनुज्ञातं तद्विपरीतम निस्सृष्टमननुज्ञातमित्यर्थः, तत् 'प्रतिक्रुष्टं निराकृतं तीर्थकरगणधरैः, अनुज्ञातं पुनः कल्पते सुविहितानां तथानिष्ट्रमनेकधा, तद्यथा - 'लड्डुकविषयं ' मोदकविषयें, तथा 'चोलकविषयं' भोजनविषयं, ' यन्त्रे' इति कोल्हकादिघाणकविषयं तथा 'संखडिविषयं विवाहादिविषयं तथा 'क्षीरविषयं ' दुग्धविषयं, तथा आपणादिविषयम्, आदिशब्दाब्रहादिविषयमवसेयम् इयमत्र भावना-इह सामान्यतोऽनिस्सृष्टं द्विधा, तथया - साधारणानिसृष्टं भोजनानिसृष्टं च तत्र भोजनानिसृष्टं चोल्लकशब्देनोक्तं, साधारणानिसृष्टं तु शेषभेदैरिति । तत्र मोदकविषयसाधारणानिसृष्टोदाहरणं गाथाचतुष्टयेनाह
बचीसा सामन्ने ते कहिँ हाउं गयत्ति इअ वृत्ते । परसंतिएण पुन्नं न तरसि काउंति पच्चाह ॥ ३७८ ॥
For Puronal & Pe
अत्र एका प्रक्षेप-गाथा वर्तते सा मया संपादितः 'आगमसुत्ताणि मूलं एवं सटीकं उभये पुस्तके वर्तते अथ 'अनिसृष्ट' दोषस्य वर्णनं आरभ्यते
~236~