________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||||
दीप
अनुक्रम
[६]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं+निर्युक्तिः+वृत्तिः) "निर्युक्तिः [६] + भाष्यं [] + प्रक्षेपं " ०
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
श्री पिण्ड
॥ ४ ॥
पया पानीयेऽपि पिण्ड इति नाम प्रयुज्यते तदा समयजं, लोके हि कठिनद्रव्याणामेकत्र संश्लेषे पिण्ड इति प्रतीतं, न तु द्रवद्रव्यसङ्घाते, ततः | पिण्डनं पिण्ड इति व्युत्पत्त्यर्थार्घटनान्न गौणम्, अथ च समये प्रसिद्धं, तथा च आचाराने द्वितीये तस्कन्धे मथमे पिण्डेषणाभिधानेऽध्ययने सप्तमोदेशक सूत्रे ' से भिक्खु वा भिक्खुणी वा गाहाबइकुलं पिंडवायपडियार अणुपविट्टे समाणे जं पुण पाणगं पासेज्जा, तंजातिलोदगं वा तुसोदगं वा' इत्यादि, अत्र पानीयमपि पिण्डशब्देनाभिहितं ततः पानीये पिण्ड इति नाम समयप्रसिद्धं न चान्वर्थयुक्तमिति समयजमित्युच्यते, यदा पुनभिक्षुर्भिक्षुकी वा भिक्षार्थी प्रविष्टा सती गृहपतिकुले गुडपिण्डमोदनपिण्डं सपिण्डं वा लभते तदा पिण्डशब्दस्तत्र प्रवर्त्तमान उभयजः, समयमसिद्धत्वादन्वर्थयुक्तत्वाच्च यदा पुनः कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते न च शरीरावयवसङ्घातविवक्षा तदा तदनुभयजं || सम्प्रति गाथाक्षराणि विवियन्ते यत्पिण्ड इति नाम गौणं, यद्वा समयकृतं-समयमसिद्धं, यद्वा भवेसदुभयकृतम्, उभयं गुणः समयश्च तच्च तदुभयं च तदुभयं तेन कृतं तदुभयकृतं, समयमसिद्धमन्वर्थयुक्तं चेत्पर्थः, अपिशब्दायद्वाऽनुभय* जमन्वर्थविकलं समयाप्रसिद्धं च तन्नामपिण्डं ब्रुवते तीर्थकरगणधराः, अत ऊर्ध्वं स्थापनापिण्डमहं वक्ष्ये || एनामेव गाथां भाष्यकृत्समप व्याचिख्यासुः प्रथमं गौणं नाम व्याख्यानयन्नाह-
गुणनिष्पक्षं गोण्णं तं चैव जहस्थमत्थवी बेंति । तं पुण खवणो जलनो तवणो पत्रनो पईवो य ॥ १ ॥ ( भा० ) व्याख्या - गुणेन परतन्त्रेण व्युत्पत्तिनिमित्तेन द्रव्यादिना यन्निष्पन्नं नाम तद्रौणं, यह (स्प) गुणैर्निष्पन्नं तद्गुणा तस्मिन वस्तु न्या गतमिति " तत आगत " इत्यनेनाण्प्रत्ययः, तदेव च गौणं नाम ' अर्थविदः ' शब्दार्थविदो यथार्थ ब्रुवते, गौणं च नाम त्रिधा, तद्यथा-द्रव्यनिमित्तं गुणनिमित्तं क्रियानिमित्तं च एतच प्रागेव भावितं, तत्र पिण्ड इति नाम क्रियानिमित्तं, पिण्डनमिति व्युत्पत्तेः, तत
Eucation International
For Parts Only
~19~
निर्युक्तिः
॥ ४ ॥
wor