________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२२२] » “नियुक्ति: [२००] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२००||
दीप
हास साधुस्तं शाल्पादनमपहाय वणिज विपणो गत्वा पृष्टवान् , वणिजाऽप्युक्तं-मगधजनपदमत्यन्तवतिनो गोरग्रामादागतः शालिरेप
इति, ततः स तत्र गन्तुं भावत, तत्रापि साधुनिमित्तं केनापि श्रावकेणार्य पन्थाः कृतो भविष्यतीत्याधाकर्मकाया पन्थान विमच्योत्पथेन व्रजति, उत्पथेन च व्रजन्नहिकण्टकश्वापदादिभिरभिद्रूयते, नापि काञ्चन दिशं जानाति, तथा आधाकर्मशडन्या वृक्षच्छायामपि परिहरन् मूर्तीि सूर्यकरनिकरप्रपातेन तप्यमानो मूर्छामगमत् , क्लेशं च महान्तं प्रापेति।
इय अविहीपरिहरणा नाणाईणं न होइ आभागी। दव्वकुलदेसभावे विहिपरिहरणा इमा तत्थ ।। २०१॥
व्याख्या-इति । एवमुक्तेन प्रकारेणाविधिना परिहरणात् ज्ञानादीनामाभागी न भवति, तस्माद्विधिना परिहरणं कर्तव्पं, तच्च विधिपरिहरणम् 'इदं वक्ष्यमाणं द्रव्यकुलदेशभावानाश्रित्य 'तत्र' आधाकर्मणि विषये द्रष्टव्यम् । तत्र प्रथमतो द्रव्यादीन्येव गाथाद्वयेनाह
ओयणसमिइमसत्तुगकुम्मासाई उ होति दवाई। बहुजणमप्पजणं वा कुलं तु देसो सुरहाई ॥ २०२॥ आयरऽणायर भावे सयं व अन्नेण वाऽवि दावणया । एएसि तु पयाणं चउपयतिपया व भयणा उ ॥ २०३ Mal
व्याख्या-ओदनः' माल्यादिकूरः 'समितिमाः' माण्डादिकाः सक्तवः कुल्माषाश्च प्रतीताः, आदिशब्दान्मुद्रादिपरिग्रहः, ॥ अमूनि भवन्ति ट्रव्याणि, कुलमल्पजनं बहुजनं चा, 'देशः' सौराष्ट्रादिकः, भावे आदरोऽनादरो बा, एतावेव स्वरूपतो व्याख्यानयति-
स्वयं वाऽन्येन वा-कर्मकरादिना यद् दापनं तौ यथासङ्खथमादरानादौ, एतेषां च पदानां 'भजना ' विकल्पना चतुष्पदा त्रिपदा वा स्यात्, किमुक्तं भवति ?-कदाचिचत्वार्यपि पदानि सम्भवन्ति कदाचित त्रीणि, तत्र यदा चत्वार्यपि द्रव्यादीनि प्राप्यन्ते तदा चतु
अनुक्रम [२२२]
~156~