________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२१३] » “नियुक्ति: [१९१] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१९१||
00000000000000000000000१00%%%
का वान्तः, असंयमरूपं चाधाकर्म, पदकायोपमईनेन तस्य निष्पनत्वात, न च वान्तमभ्यवर्जुमुचितं विवेकिनाम्, अत: साधोरनेषणीयम-| भोज्यमिति । पुनरप्याधाकर्मण एवाभोज्यतां दृष्टान्तान्तरेण समर्थयमानो गाथाद्वयमाह
मज्जारखइयमंसा मंसासित्थि कुणिमं सुणयवंतं । वन्नाइ अन्नउप्पाइयंपि किं तं भवे भोज्जं ॥ १९२॥ केई भणंति पहिए उट्ठाणे मंसपेसि वोसिरणं । संभारिय परिवेसण वारेइ सुओ करे घेत्तुं ॥ १९३ ॥
व्याख्या-बक्रपुरनाम पुरं, तत्र वसत्युग्रतेजाः पदातिः, तस्य भार्या रुक्मिणी, अन्यदा च उग्रतेजसो ज्येष्ठभ्राता सोदासाभिधानः प्रत्यासन्नपुरात् प्राघूर्णकः समाययो, उग्रतेजसा च भोजनाय कापि मांसं कृत्वा रुक्मिण्यै समर्पोमासे, तस्याश्च रुक्मिण्या गृहव्यापाव्यापृतायास्तन्मांसं माजोरोऽवभक्षत् , इतश्च सोदासोग्रतेजसोभोजनार्धमागमनवेला, ततः सा व्याकुलीवभूव, अत्रान्तरे च कापि कस्यापि मृतस्य कार्पटिकस्य शुना मांस भक्षयित्वा तद्गृहमाङ्गणपदेशे तस्याः साक्षात्पश्यन्त्याः पुरतः कथमपि वातसंक्षोभादिवशादुद्वमितं, ततः ।
साऽचिन्तयत्-यदि नाम कुतोऽपि विपणेरन्यन्मांसं क्रीत्वा समानेष्यामि तर्हि महदुत्सूरं लगिष्यति, प्राप्ता च समीपं पतिज्येष्ठयोर्भोजन-1 हावेला, तस्मादेनदेव मांसं जलेन सम्पक प्रक्षाल्य वेसवारेणोपस्करोमि, तथैव च कृतं, समागतो सोदासोग्रतेजसौ उपविष्टौ च भोजनार्थ,
परिवेषितं तयोस्तन्मांस, ततो गन्धविशेषेणोग्रतेजसा विजज्ञे यथा वान्तमेतदिति, ततस्तेन साक्षेपं भुवमुत्पाट्य रुक्मिणी पप्रच्छे, सा च साटोपभ्रूत्सेपदर्शनतो विभ्यती पवनधुतक्षशाखेव कम्पमानवपुर्यथाऽवस्थितं कथितवती, ततः परित्यज्य तन्मांसं साक्षेपं निर्भय भूयोन्यन्मांसं पाचिता, तद्भुक्तं । प्रथमगाथाक्षरयोजना त्वेवं-मार्जारेण खादितं-भक्षितं मांसं यस्याः सा माारखादितमांसा मांसाशिन उग्रतेनसः स्त्री-महेला अन्यन्मांसममामुवती श्ववान्तं कुणपं-मांसं गृहीतवती, तच वेसवारोपस्कारेण वर्णादिभिरन्यदिवोत्पादितमपि किं भवति ।
दीप
अनुक्रम [२१३]
~152