________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१७२||
दीप
अनुक्रम
[१९४]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१९४ ] ● → “निर्युक्तिः [ १७२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
पिण्डनकैर्मलयगिरीयावृत्तिः
॥ ६६ ॥
❖❖❖❖❖❖❖❖❖❖6601
कल्यादी वृक्षे यदा फलं निष्पद्यमानं साधुसत्ताया अपनीयात्मसत्तासम्बन्धि करोति श्रोटयति च तदा तदपि कल्पते, किं पुनश्छाया ?, सा हि सर्वथा न साधुसत्तासम्बन्धिनी विवक्षिता, न हि साधुच्छायानिमित्तं स वृक्ष आरोपितस्तत्कथं न कल्पते ? ।।
परपच्चइया छाया न विसा रुक्खोव्व वट्टिया कत्ता । नटुच्छाए उ दुमे कप्पइ एवं भणंतरस ॥ १७३ ॥
व्याख्या--सा छाया 'परप्रत्ययिका' सूर्यहेतुका, न वृक्षमात्रनिमित्ता, तस्मिन् सत्यपि सूर्याभावे अभावात्, तथाहि छायानाम पार्श्वतः सर्वत्रातपपरिवेष्टितप्रतिनियतदेशवर्त्ती श्यामपुद्गलात्मक आवपाभावः इत्यंभूता च छाया सूर्यस्यैव अन्वयव्यतिरेका, चतुविंधत्वेन द्रुमस्य, द्रुमस्तु केवलं तस्या निमित्तमात्रं, न चैतावता सा दुष्यति, छायापुद्गलानां द्रुमपुद्गलेभ्यो भिन्नत्वात् न च 'वृक्ष इव तरुरिव 'कर्त्रा वृक्षारोपण वृद्धिं नीता, तद्विषयतथारूपसङ्कल्पस्यैवाभावात्, ततो नाधाकस्मिकी छाया । किं चयद्याचाकमिकी छायेति न तस्यामवस्थानं कल्पते तत एवं परस्य भणतो यदा घनपटलैराच्छादितं गगनपण्डलं भवति तदा तस्मिन् दुमे नष्टच्छाये सति तस्याधः शीतभयादिनाऽवस्थानं कल्पते इति प्राप्तं, न चैतद्युक्तं, तस्मात्स एव द्रुम आधाकस्मिकस्तत्संस्पृष्टा श्राधः कतिपयप्रदेशा: पूतिरिति प्रतिपत्तव्यं, न तु च्छायाऽऽधाकर्मिकीति । पुनरपि परेषां दूषणान्तरमाह
वड्इ हायइ छाया तत्थिकं पूइयंपि व न कप्पे । न य आहाय सुविहिए निष्यत्तयई रविच्छायं ॥ १७४ ॥
व्याख्या – इह छाया तथातथासूर्यगतिवशादर्द्धते हीयते च ततो खेरस्तमयसमये प्रातःसमये चातिद्राघीयसी विवर्द्धमाना छाया सकलमपि ग्राममभिव्याप्य वर्तते, अतस्तत्स्पृष्टं सकलमपि ग्रामसम्वन्धि वसत्यादिकं 'पूतिकमित्र' तृतीयोद्मदोषदुष्टमशनादिकमिव न
Education International
For Park Use On
~ 143~
आधाकर्मणि अशन
स्य संभवः
॥ ६६ ॥