________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||११०||
दीप
अनुक्रम [१३२]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१३२] ● → “निर्युक्तिः [११० ] + भाष्यं [ २२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२] मूलसूत्र - [०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
+ प्रक्षेपं
40
मपि प्राप्तो भवति तथापि यावनाद्यापि बन्धः पतति तावदक्षतया झांगेति तद्विषयादपसर्पति, यस्तु प्रमत्तो दक्षतारहितश्च स बध्यते एव, तस्मान्मृगोऽपि बध्यते परमार्थतः स्वप्रमादक्रियावशतो न परप्रयुक्तिमात्रात्, 'एवमेव' अनेनैव मृगदृष्टान्तोक्तप्रकारेण 'भावकूटे संयमरूपभावबन्धनाय कूटमिव कूटम् आधाकर्म तत्र स ' वध्यते' ज्ञानावरणीयादिकर्म्मणा युज्यते, योऽशुभभावपरिणामः- आहारकाम्पय्यत आधाकर्मग्रहणात्मकाशुभभावपरिणामो न शेषः, न खल्वाधाकर्म्मणि कृतेऽपि यो न तद्गृह्णाति नापि भुङ्क्ते स ज्ञानावरणीयादिना पापेन बध्यते, न हि कूटे स्थापितेऽपि यो मृगस्तद्देश एवं नाऽऽयाति आयातोऽपि यत्नतस्तदेशं परिहरति स कूटेन बन्धमामोति, तन्न परप्रयुक्तिमात्राद्वन्धो येन परोक्तनीत्या परकृतकर्म्मण आत्मकम्मकरणमुपपद्यते किन्त्वशुभाध्यवसायभात्रतः, तस्मादशुभो भाव आधाक| ग्रहणरूपः साधुना प्रयत्नेन वर्जयितव्यः, परकर्म्म आत्मकर्म्म करोतीत्यत्र च वाक्ये भावार्थः प्रागेव दर्शितः, यथा परस्य पाचकादेर्यत्कर्म तदात्मकम्मकरोति, किमुक्तं भवति ? तदात्मन्यपि कम्र्म करोतीति, ततो न कश्विदोषः, परकर्म्मणश्वात्मकम्मकरणमाधा कर्मणा ग्रहणे भोजने वा सति भवति नान्यथा, तत उपचारादाधाकर्म्म आत्मकर्मेत्युच्यते । नतु तदाधाकर्म यदा स्वयं करोत्यन्यैव कारयति कृतं वाऽनुमोदते तदा भवतु दोषो यदा तु स्वयं न करोति नापि कारयति नाप्यनुमोदते तदा कस्तस्य ग्रहणे दोष इति ?, अत्राह
कामं सयं न कुब्बइ जाणतो पुण तहावि तग्गाही । वड्ढेइ तप्पसँग अगिण्हमाणो उ वारेइ ॥ १११ ॥
व्याख्या--' कामं सम्मतमेतद्, यद्यपि स्वयं न करोत्याधाकर्म्म उपलक्षणमेतन कारयति तथाऽपि मदर्थमेतन्निष्पादितमिति जानानो यथाधाकर्म्म गृह्णाति तर्हि तग्राही 'तत्प्रसङ्गम् ' आधाकर्मग्रहणप्रसङ्गं वर्द्धयति, तथाहि यदा स साधुराधाक जानानो गृह्णाति तदाऽन्येषां साधूनां दायकानां चैवं बुद्धिरुपजायते - नाऽऽघाकम्र्म्मभोजने कथनापि दोषः, कथमन्यथा स साधुजनानोऽपि गृही
Educatin internationa
For Pal Use Only
~ 100~
or