SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९८३] .→ “नियुक्ति: [६४७] + भाष्यं [३०८...] + प्रक्षेपं २७..." . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: कालग्रहणविधिः नि. ६४५-६४८ प्रत गाथांक नि/भा/प्र ॥६४७|| श्रीओघनियुक्तिः बृत्तिः ॥२०२॥ दीप | पियधम्मो दधम्मो संविग्गो चेवऽवज्जभीरू य । खेयन्नो य अभीरू कालं पडिलेहए साहू ॥ ६४७॥ प्रियः-इष्टो धर्मोऽस्येति प्रियधर्मा, तथा दृढः-स्थिरो निश्चलो धर्मो यस्य स तथा, 'संविग्गों' मोक्षसुखाभिलाषी, 'अवद्यभीरु' पापभीरुः, 'खेदज्ञः' गीतार्थः तथा 'अभीरुः सत्त्वसंपन्नः एवंविधः 'कालं' कालग्रहणवेलां प्रत्युपेक्षते साधुः, एवंविधः कालवेलायाः प्रतिजागरणं करोति । इदानीं दण्डधारिणि घोषयित्या निर्गते पुनश्च स द्वितीयः कालग्राही कालसंदिशनार्थं गुरोः समीपं प्रविशति, कथम् - आउत्तपुषभणिए अणपुच्छा खलियपडिय वाघाते । घोसंतमूढसंकियइंदियविसएवि अमणुन्ने ॥ ६४८॥ सच प्रविशन् 'आयुक्ता' उपयुक्तः सन् प्रविशति, एतस्मिंश्च प्रवेशने पूर्वोक्तमेव द्रष्टव्यं यतो निर्गच्छतो यो विधिःप्रविशतोऽपि स एव विधिरित्यत आह-पूर्वभणितमेतत्, अथ त्वनापृच्छयैव गुरुं कालं गृह्णाति ततश्चानापृच्छय गृहीतस्य | कालस्य, एतदुक्तं भवति-गृहीतोऽप्यसौ न भवति, तथा स्खलितस्य सतः कालव्याधाता, पतितस्य व्याधातः कालस्य, एवं संजाते सति कालो न गृह्यते, तथा प्रविष्टस्य गुरुवन्दनकाले केनचित्सह जल्पतः कालो व्याहन्यते, तथा मूढो| यदि भवति आवर्तान विधिविपर्यासेन ददाति तथाऽपि व्याहन्यते कालः, तथा शङ्कया न जानाति किमावत्तों दत्ता| नवेत्यस्यामवस्थायां व्याहन्यते कालः, इन्द्रियविषयाश्च यद्यमनोज्ञा भवन्ति तथाऽपि कालो व्याहन्यते, छिन्धि भिन्धीत्येवंविधान् शब्दान् शृणोति, गन्धोऽनिष्टो यदि भवति, यत्र गन्धस्तत्र रसोऽपि, विकराल रूपं पश्यति, स्पर्शेन लेष्वभिघा- तोऽकस्मावति, एवंविषे सत्यामपि वेलायां न गृह्णाति कालं । प्रविष्टश्चासौ किं करोतीत्यत आह अनुक्रम [९८३] २०२॥ ~415~
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy