SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||४९३ || दीप अनुक्रम [७८२] [भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [७८२] -- “निर्युक्ति: [४९३] + भाष्यं [ २६१... ] + प्रक्षेपं [२७... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः ← मस्य हेमन्ते चतुर्षु भागेषु शुष्केषु सत्सु ग्रहणं, तथा तस्यैव मध्यमस्य वर्षाकाले पञ्चसु भागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यं, तथा वृद्धपुरुषस्योष्णकाले चतुर्षु भागेषु शुष्केषु सत्सु ग्रहणं कर्त्तव्यं तस्यैव वृद्धस्य हेमन्ते पश्ञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव वृद्धस्य वर्षाकाले षट्सु भागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यं । नपुंसकस्य पुनस्त्रिभागेष्वारब्धं सप्तमभागेषु संतिष्ठते, एतदुक्तं भवति-सर्वस्मिन् हस्ते शुष्के सति ग्रहणं कर्त्तव्यं भवति, तत्र चेयं भावना - तरुणनपुंसकस्योष्णकाले त्रिषु भागेषु शुष्केषु भिक्षाग्रहणं कल्पते, तस्यैव तरुणनपुंसकस्य हेमन्तकाले चतुर्षु भागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यं, तस्यैव वर्षाकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, मध्यमस्य नपुंसकस्योष्णकाले चतुर्षु भागेषु शुष्केषु ग्रहणं, तस्यैव च हेमन्तकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव च वर्षाकाले षट्सु भागेषु शुष्केषु ग्रहणं, बृद्धनपुंसकस्योष्णकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव हेमन्तकाले षट्सु भागेषु शुष्केषु भिक्षाग्रहणं, तस्यैव वृद्धनपुंसकस्य वर्षाकाले सप्तस्वपि सप्तभागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यमिति । एवमेकैकवृद्धया ग्रहणमुक्तं, पश्चानुपूर्व्या तु एकैकभागहान्या भिक्षाग्रहणं वेदितव्यं, तच्चैवं स्थविरनपुंसकस्य वर्षाकाले सप्तभिरपि हस्तभागः शुष्कैर्गृह्यते भिक्षा, तस्यैव शीतकाले पनिर्भागैः शुष्कैर्गृह्यते, तस्यैवोष्णकाले पञ्चभिर्भागः शुष्कैर्गृह्यते, एवमनया हान्या तावन्नेतव्यं यावत्तरुणी स्त्रीति । उक्तं त्रिविधद्वारं, भावद्वारप्रतिपादनायाह दुविहो य होह भावो लोइयलोउत्तरो समासेणं । एकिकोव य दुविहो पसत्थओ अप्पसत्थो य ॥ ४९४ ॥ द्विविधो भवति भावः - लौकिको लोकोत्तरश्चेति, समासतः पुनरेकैको द्विविधः प्रशस्तोऽप्रशस्तश्च, लौकिकः प्रशस्तोs For Parts Only ~354~ rary or
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy