________________
आगम (४०)
[भाग-३१] "आवश्यक"- मूलसूत्र-१/४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [सू.] / [गाथा १-४], नियुक्ति: [१५२३...] भाष्यं [२३१....,
आवश्यक- हारिभद्रीया
प्रत सूत्रांक ||गा.||
॥७८८॥
दीप अनुक्रम [४८-५२]
श्रुतधर्मस्य प्रोच्यते-'तमतिमिरपडलविद्धसणस्स सुरगणे त्यादि, तम:-अज्ञानं तदेव तिमिरं अथवा तमः-बद्धस्पृष्टनि- कायोत्स| धत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपट- गोंध्य. लविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव पतिक्रमणसुरादयः, तथा सीमां-मर्यादां धारयतीति सीमाधरः, सीम्नि वा धारयतीति तस्येति, तृतीयाथै षष्ठी, तं वन्दे, तस्य वा
विध: यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि-आगमवन्त एवं मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयास्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह-'जाईजरामरणे त्यादि, जाति:-उत्पत्तिः जरा-क्योहानिः मरण-प्राणत्यागः शोकः-मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्वेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति-अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मो कानुछानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम्-आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं-सम्पूर्ण न च तदल्प किं तु विशालं-विस्तीर्ण सुख-प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहतिप्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य
॥७८८॥ विशिष्टार्थप्रसाधकत्वमाह, कःपाणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य-दृष्ट्वा विज्ञाय कुर्यात् प्रमाद, सचेतनः चारित्रधर्म प्रमादः कर्तुं न युक्त इति हृदयम्, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चि-17
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~265