SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [--] दीप अनुक्रम [३६..] आवश्यकहारिभ द्वीया 'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः ॥ १४७३ || अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयनाह-'मा मे एजड काउ'ति एजतु कम्पतां 'कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं १, कायेन निर्वृत्तं कायिकं भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः ॥ १४७४ ॥ इत्थं प्रतिपादिते ॥७७५॥। ४१ सत्याह चोदकः - 'जह कायमणनिरोहे' ननु यथा कायमन सोर्निरोधे ध्यानं प्रतिपादितं भवता 'बायाइ जुज्जइ न एवं ति वाचि युज्यते नैवेति कदाचिदप्रवृत्यैव निरोधाभावात्, तथाहि न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उ झाणं न होइ तस्माद् वागू ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा विसेसोऽत्थ'त्ति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वागू ध्यानं भवतीति गाथार्थः || १४७५ ।। इत्थं चोदकेनोचे सत्याह गुरुः'मा मे चलउ 'ति मा मे चलतु- कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनुः- शरीरमिति एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं 'निरेइणो' निरेजिनो- निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाणमेवं तु' अयताभापाविवर्जिनो दुष्टवाक्परिहर्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकं, तुशब्दोऽवधारणार्थ इति गाथार्थः ।। १४७६ ॥ साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह - 'एवंविहा गिरा' एवंविधेति निरवद्या गीः- वागुच्यते 'मे'ति मया वक्तव्या 'एरिस'त्ति ईदृशी सावया न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः ॥ १४७७ || एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिवि धमपि दर्श्यते - 'मणसा वावारंतो' मनसा - अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य- देहं वाचं भारतीं च 'तप्परी [भाग-३१] “आवश्यक”– मूलसूत्र - १/४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [-] / [गाथा-], निर्युक्तिः [१४७८] भाष्यं [२३१...]., Education For Parts Only ५ कायोत्सगाध्य० ध्यानत्रैविध्यं योगवत् ~239~ ॥७७५॥ org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
SR No.035031
Book TitleSavruttik Aagam Sootraani 1 Part 31 Aavashyak Mool evam Vrutti Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size90 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy