SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] “आवश्यक”- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०२६], भाष्यं [१७४...] नायामपि द्वयस्यायस्यैवेति गाथार्थः ॥ १०२६ ॥ साम्प्रतं सामायिककरणमेवाव्युत्पन्नविनेयवर्गव्युत्पादनार्थ सप्तभिरनु-भा योगद्वारैः कृताकृतादिभिः निरूपयन्नाह कयाकयं १ केण कयं २ केसु अव्वेसु कीरई वावि ३ । काहे व कारओ ४ नयओ ५ करणं कहविहं ६ (च) कहं ७१ ॥ १०२७ ॥ व्याख्या-'कयाकर्य'ति सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत्सामायिकमस्याः क्रियायाः प्राक् किं कृतं क्रियते ? आहोश्विदकृतमिति, उभयथाऽपि दोषः, कृतपक्षे भावादेव करणानुपपत्तेः, अकृतपक्षेऽपि वान्ध्येयादेरिव करणानुपपत्तिरेवेति, अत्र निर्वचनं, कृतं चाकृतं च कृताकृत, नयमतभेदेन भावना कार्या, केन कृतमिति वक्तव्यं, तथा केषु द्रव्येष्विष्टादिषु क्रियते !, कदा वा कारकोऽस्य भवतीति वक्तव्यं, 'नयत' इति केनालोचनादिना नयेनेति, तथा करणं 'कइविहं' कतिभेदं 'कथं' केन प्रकारेण लभ्यत इति वक्तव्यमयं गाथासमासाथैः ॥१०२७ ॥ अवयवार्थ तु प्रतिद्वार भाष्यकार एव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽहउप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे। दा०१केणंति अत्यओतं जिणेहिं सुत्तंगणहरेहि॥१७॥(दा०२)भा० व्याख्या-इहोत्पन्नानुत्पन्न कृताकृतमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्न क्रियते, द्रव्यपर्यायोभयरूपत्वावस्तुन इति, अत्र नैगमादिनयैर्भावना कार्येति, अत एवाऽऽह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, न JAMEairatam natorary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: सामायिककारणस्य सप्त अनुयोगद्वारैः निरूपणं ~70
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy