________________
आगम (४०)
[भाग-३०] “आवश्यक”- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [१], मूलं [२] / [गाथा-], नियुक्ति: [१०२५], भाष्यं [१७४...]
आवश्यक
द्रीया
॥४६६॥
व्याख्या-योजनाकरण 'त्रिविधं त्रिप्रकारं 'मणवइकाए यत्ति मनोवाकायविषय, तत्र 'मनसि सत्यादि' मनोविषय सूत्रस्पर्श सत्यादियोजनाकरणं तद्यथा-सत्यमनोयोजनाकरणम् , असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणम् , असत्या-14 करणस्व० मृषामनोयोजनाकरणमिति, 'स्वस्थाने प्रत्येकं मनोवाकायलक्षणे 'तेषां' योजनाकरणानां 'भेदः' विभागः 'चउ चउहा सत्तहा।
वि०१ चेवत्ति अयमत्र भावार्थ:-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाम्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यं, काययोजनाकरणं तु सप्तभेदं, तद्यथा-औदारिककाययोजनाकरणम् , एवमौदारिकमित्रम् , एवं वक्रियकायः एवं क्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम् , एवं कार्मणकाययोजनाकरणमिति गाथार्थः । १०२५ ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम् , अधुनाऽत्र येनाधिकार इति तद्दर्शनायाऽऽहभावसुअसद्दकरणे अहिगारो इत्थ होइ कायब्यो । नोमुअकरणे गुणझुंजणे अ जहसंभव होइ ॥ १०२६ ॥
व्याख्या-भावश्रुतशब्दकरणे 'अधिकारः' अवतारो भवति कर्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, तस्य अन्ते यथासम्भवाभिधानाद्, इह चभावश्श्रुतं सामाविकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एव विवक्षितो न तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य 'गुणझुंजणे यत्ति गुणकरणे योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारः, तपःसंयमगुणात्मकत्वाचारित्रस्य, योजनाकरणे च मनोवाग्योजनायां सत्यासत्यामृषाद्धये द्वयस्यापि भावनीयः, काययोज
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~69~