SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [8] दीप अनुक्रम [२] Eaura [भाग-३०] “आवश्यक”- मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [१], मूलं [२] / [गाथा - ], निर्युक्ति: [१०१४...], भाष्यं [ १५१...] इह च सूत्रानुगम एव (सूत्र) अहीनाक्षरादिगुणोपेतमुच्चारणीयं तद्यथा-अहीनाक्षरमन त्यक्षरमव्याविद्धाक्षरमस्खलितममिलितमव्यत्यास्म्रेडितं प्रतिपूर्ण परिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं वाचनोपगतम्, इत्यमूनि प्रागू व्याख्यातत्वान्न व्याख्यायन्ते, ततस्तस्मिन्नुञ्चरिते सति केषाञ्चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता भवन्ति केचन त्वनधिगताः, ततश्चानधिगताधिगमनाय व्याख्या प्रवर्तत इति, तलक्षणं चेदं 'संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥ १ ॥ इति, तत्रास्खलितपदोच्चारणं संहिता, अथवा-परः सन्निकर्षः संहिता, यथा करेमि | भंते! सामाइयमित्यादि जाव वोसिरामित्ति । पदं च पञ्चधा, तद्यथा-नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्र चेति, तत्र अश्व इति नामिकं खल्विति नैपातिकं परीत्यौपसर्गिकं धावतीत्याख्यातिकं संयत इति मिश्रम्, अथवा सुबन्तं तिङन्तं च 'सुप्तिङ्न्तं पद' ( पा० १-४ -१४ ) मिति वचनात् तत्र करोमि भयान्त । सामायिकं, सर्व सावधं योगं प्रत्याख्यामि यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यम्यं न समनुजाने, तस्य भयान्त ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामीति पदानि । अधुना पदार्थ:- स च चतुर्विधः, तद्यथा - कारक विषयः समासविषयस्तद्धितविषयो निरुक्तिविषयश्च तत्र कारकविषयः पचतीति पाचकः, समासविषय:राज्ञः पुरुषो राजपुरुष इति, तद्धितविषयः - वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयः - भ्रमति चरौति च भ्रमरः, अत्रापि, 'डुकृञ् करण' इत्यस्य लट्प्रत्ययान्तस्य 'तनादिकृञ्भ्य उ ( पा० ३-१-७९) रिति उच्चे गुणे रपरत्वे च कृते करोमीति भवति अभ्युपगमश्चास्यार्थः, एवं प्रकृतिप्रत्ययविभागः सर्वत्र वक्तव्यः, इह तु ग्रन्थविस्तरभयान्नोक इति, भयं प्रतीतं, तथा For Patina Peny bray org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः अथ 'करेमि भंते' सूत्रस्य विशद् व्याख्या आरभ्यते ~46~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy