________________
आगम (४०)
[भाग-३०] “आवश्यक”- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०१४...], भाष्यं [१५१...]
आवश्यकहारिभ. द्रीया
॥४५५॥
वक्ष्यामश्वोपरिष्टादिति, अन्तो-विनाशः, भयस्यान्त इत्ययमेव पदविग्रहः, पदपृथक्करण पदविग्रह इति, सामायिकपदार्थः सूत्रस्पर्श पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवयं-पापं सहावद्येन सावद्यः-सपाप इत्यर्थः, युज्यत इति योगः च्यापारस्तं, वि०१ प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ्क आभिमुख्ये ख्या प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापनं सावद्ययोगस्य करोमि। प्रत्याख्यामीति, अथवा प्रत्याचक्ष इति 'चक्षिा व्यक्तायां वाचि' अस्य प्रत्यापूर्वस्यायमर्थः प्रतिषेधस्यादरेणाभिधानं करोमि प्रत्याचक्षे, 'यावज्जीवये त्यत्र यावच्छन्दः परिमाणमर्यादावधारणवचनः, तत्र परिमाणे यावत् मम जीवनपरिमाणं तावत् प्रत्याख्यामीति, मर्यादायां यावज्जीवनमिति, मरणमर्यादाया आरान्न मरणकालमात्र एवेति, अवधारणे यावजीवनमेव तावत् प्रत्याख्यामि, न तस्मात् परत इत्यर्थः, जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते तया, अथवा प्रत्याख्यानक्रिया गृह्यते, यावज्जीवो यस्यां सा यावजीवा तया, 'त्रिविध मिति तिस्रो विधा यस्य सावद्ययोगस्य स त्रिविधा, स च प्रत्याख्येयत्वेन कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं योग-मनोवाक्कायव्यापारलक्षणं, 'कायवाङानः कर्मयोगः' (तत्वा० अ०६सू०१) इति वचनात, त्रिविधेनेति करणे तृतीया, 'मनसा वाचा कायेन' तत्र |'मन ज्ञाने' मननं मन्यते वाऽनेनेति असुनप्रत्यये मनः, तच्चतुर्की-नामस्थापनाद्रव्यभावः, द्रव्यमनस्तद्योग्यपुद्गलमयं, भावमनो मन्ता जीव एव, 'वच परिभाषणे वचनम् उच्यते वाऽनयेति वाक्, साऽपि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाकू शब्दपरिणामयोग्यपुद्गला जीवपरिगृहीता भाववाकू पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः, 'चिञ् चयने' चयनं ५ चीयते वाऽनेनेति "निवासचितिशरीरोपसमाधानेष्वादेश्च कः" (पा०३-३-४१) इति कायः, जीवस्य निवासात् पुग
JABERam
Ajanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~47