________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...],
प्रत
सूत्रांक
एवं चविहं रागवोसमोइंकियस्स जीवस्म । अल्माण संसारवणं तिरिवगइमूलं ॥१०॥ व्याख्या-'एतत् अनन्तरोदितं 'चतुर्विध चतुष्पकारं 'रागद्वेषमोहाङ्कितस्य' रागादिलामिछतस्येत्यर्थः, कस्य :'जीवस्य आत्मनः, किम् ?-आर्तध्यानमिति, तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह-संसारवर्द्धन-1 मोघता, तिर्यग्गतिमूल विशेषत इति गाथार्थः ॥ १०॥ आह-साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेः तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकार:
मन्मथस्स र मुषिणो सकम्मपरिणामजाणियमेयंति । वधुस्सभावचिंतणपरस्स समं सहतस्स ॥ १॥ व्याख्या-मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते जगतखिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत्-शूलादि, यच्च प्राकर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः, उक्तं च परममुनिभिः-'पुर्वि खलु भो। कडाणं कम्माणं दुच्चिण्णाणं दुपडिकंताणं वेइत्ता मोक्खो, नत्थि अवेदइत्ता, तवसा वा झोसइत्ते'त्यादि, एवं वस्तुस्वभावचिन्तनपरस्य 'सम्यक् शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम् ?, अपि तु धर्म्यमनिदानमिति वक्ष्यतीति गाथार्थः ॥११॥ परिहत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह
पूर्व खलु भो। कृतानां कर्मणा दुवीर्णानां दुष्पतिकान्तानां वेदयित्वा मोक्षो नास्त्यचेदवित्वा तपसा पा क्षपयित्वा.
दीप अनुक्रम
[२१..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~308~