________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१] भाष्यं [२०४....,
4-59-2-552
प्रत
सूत्रांक
%-5
[सू.]
पडिसिद्धाणं करणे किचाणमकरणे य पडिकमणं । असद्दहणे य तहा विवरीयपरूवणाए य॥१२७१ ॥ व्याख्या-'प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां 'करणे निष्पादने आसेवन इत्यर्थः, किं - प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, 'कृत्यानाम् आसेवनीयानां कालस्वाध्यायादीनां योगानाम् 'अकरणे' अनिष्पादनेऽनासेवने प्रतिक्रमणम् , अश्रद्धाने च तथा केवलिप्ररूपितानां पदार्थानां प्रतिक्रमणमिति वर्तते, विपरीतप्ररूपणायां च अन्यथा पदार्थकथनायां च प्रतिक्रमणमिति गाथार्थः ॥ १२७१ ॥ अनया च गाथया यथायोग सर्वसूत्राण्यनुगन्तव्यानि, तद्यथा-सामायिकसूत्रे प्रतिषिद्धी रागद्वेषौ तयोः करणे कृत्यस्तु तन्निग्रहस्तस्याकरणे सामा[यिकं मोक्षकारणमित्यश्रद्धाने असमभावलक्षणं सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेष्वप्यायोज्य, चत्वारो मालमित्यत्र प्रतिषिद्धोऽमङ्गलाध्यवसायस्तकरण इत्यादिना प्रकारेण, एवमोघातिचारस्य समा
सेन प्रतिक्रमणमुक्तं, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमधिकृत्याऽऽहII इच्छामि पटिकमि इरियावहियाए विराहणाए गमणागमणे पाणकमणे बीयकमणे हरिपकमणे ओसा-15
उत्तिंगपणगदगमहिमकडासंताणासंकमणे जे मे जीवा विराहिया एगिदिया बेईदिया तेइंदिया चरिंदिया पंचिंदिआ अभिहआ वत्तिआ लेसिआ संघाइआ संघट्टिआ परिआविआ किलामिआ उद्दविआ ठाणाओ। ठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुकाई ॥ (सू०)
अस्य व्याख्या-इच्छामि-अभिलपामि प्रतिक्रमितुं-निवर्तितुम् , ईर्यापथिकायां विराधनायां योऽतिचार इति गम्यते,
09-2-56+
दीप अनुक्रम
[१६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ... यहां मैने उपर हेडिंग मे मूलं के साथ [कौंस मे] 'सू.' ऐसा सूत्र का संक्षेप लिखा है, क्यों की मूल संपादकने यहां कोई क्रम नहि दिया है। । "ईर्यापथ-प्रतिक्रमण" मूलसूत्र एवं तस्य विशद् व्याख्या
~282