________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७०...] भाष्यं [२०४....,
आवश्यक- हारिभद्रीया
प्रतिक्रम णाध्य.
प्रत सूत्रांक
॥५७२॥
चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिपूपहितमेव भोजनजातं ततो गृहृतः पञ्चमी, प्रगृहीता नाम भोजनवे- लायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्दोजनजातं भो(भुक्त्वा वा स्वहस्तादिना तद्गृहत इति भावना पष्ठी, उज्झित- धर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्गन्ति तदर्द्धत्यक्तं वा गृहत इति हृदयं सप्तमी, एष खलु समासार्थः, व्यासार्थस्तु ग्रन्थान्तरादवसेयः, सप्तानां पानैषणानां केचित् पठन्ति, ता अपि चैवम्भूता एव, नवरं चतुझं नानात्वं, तत्राप्यायामसौवीरादि निलेपं विज्ञेयमिति, अष्टानां प्रवचनमात्रणां, ताश्चाष्टौ प्रवचनमातर:-तिम्रो गुप्तयः तथा पञ्च समितयः, तत्र प्रवीचाराप्रवीचाररूपा गुप्तयः, समितयः प्रवीचाररूपा एव, तथा चोक्तम्-“समिओ णियमा गुत्तो गुत्तो समियत्तणमि भइयो । कुसलवइमुदीरितो जं वयगुत्तोऽवि समिओऽवि॥१॥" नवानां ब्रह्मचर्यगुप्तीना-वसतिकथादीनाम्, आसां स्वरूपमुपरिष्टावक्ष्यामः, दशविधे-दशप्रकारे श्रमणधर्मे-साधुधर्मे क्षान्त्यादिके, अस्यापि | स्वरूपमुपरिष्टाद्वक्ष्यामः, अस्मिन् गुस्यादिषु च ये श्रामणा योगा:-श्रमणानामेते श्रामणास्तेषां श्रामणानां योगाना-व्यापा-| राणां सम्यक्प्रतिसेवनश्रद्धानप्ररूपणालक्षणानां यत् खण्डितं-देशतो भग्नं यद्विराधित-सुतरां भग्नं, न पुनरेकान्ततोऽभा-1 वमापादितं, तस्य खण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्गोचरस्य ज्ञानादिगोचरस्य च दैवसिकातिचारस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुकर्ड' इत्यनेन तु निष्ठाकालमाह, मिथ्येति-प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथा
१ समितो नियमाहुलो गुप्तः समितत्वे भक्ताम्यः । कुशलवाचमुदीरयन यचोगुप्तोऽपि समितोऽपि ॥ १॥
दीप अनुक्रम [१५]]
५७२।।
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~281