SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [.] / [गाथा-], नियुक्ति : [१२७१...] भाष्यं [२०४...], हारिभद्रीया प्रत सूत्रांक ॥५७३॥ दातस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुकडे इत्यनेन तु निष्ठाकालमिति, तोरणमीर्या गमनमित्यर्थः, तत्प्रधान WIपन्या ईर्यापथः तत्र भर्यापथिकी तस्यां, कस्यामित्यत आह-विराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधना-Tx क्रिया तस्यां विराधनायां सत्यां, योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं चागमनं चेत्येकवद्भावस्तस्मिन् , तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यः कथं जातोऽतिचार इत्यत आह-'पाणकमणे प्राणिनो-द्वीन्द्रियादयवसा गृह्यन्ते, तेषामाक्रमणं-पादेन पीडनं प्राण्याक्रमणं, | तस्मिन्निति, तथा बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोतिङ्गपनकदगमृत्तिकामर्कटसन्तानसङ्क्रमणे सति, तत्रावश्यायः-जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गर्दभाकृतयो जीवा कीटिकानगराणि वा पनका-फुलि दगमृत्तिकाचिक्खालम् , अथवा दकग्रहणादकायः, मृत्तिकाग्रहणात् पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्याय-1 थोत्तिङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्कमण-आक्रमणं तस्मिन् , किंबहुना!, कियन्तो भेदेनाऽऽख्यास्यन्ते , सर्वे ये मया जीवा विराधिता-दुःखेन स्थापिताः, एकेन्द्रियाः-पृथिव्यादयः, द्वीन्द्रिया:-कृम्या-1 दया, त्रीन्द्रियाः-पिपीलिकादयः, चतुरिन्द्रिया-भ्रमरादयः, पवेन्द्रिया-मूषिकादयः, अभिहता-अभिमुख्येने हताः, चरणेन ट्र घट्टिताः, उरिक्षप्य क्षिप्ता वा, वर्तिताः-पुजीकृताः, धूल्या वा स्थगिता इति, श्लेषिता:-पिष्टाः, भूम्यादिषु वा लगिताः, * किंविशिष्टाया-प्रा. + अभिमुखागता. दीप अनुक्रम [१६] CCCCCC ॥५७३॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~283
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy