SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं ] / [गाथा-७...], नियुक्ति : [११९६], भाष्यं [२०४...], (४०) प्रत सूत्रांक ||७..|| व्याख्या-मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम् , अपिशब्दान्मातामहपितामहादिपरिग्रहः, कृतिकर्म' अभ्यु-18 थितवन्दनमित्यर्थः, न कारयेत् सर्वान् रत्नाधिकाँस्तथा, पर्यायज्येष्ठानित्यर्थः, किमिति ?, मात्रादीन् वन्दनं कारयतः लोकगोपजायते, तेषां च कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत् , सागारिकाध्यक्षे तु यतनया कारयेद्, एष प्रत्रग्याप्रतिपन्नानां विधिः, गृहस्थास्तु कारयेदिति गाथार्थः ॥ ११९६ ॥ साम्प्रतं कृतिकर्मकरणो-18 चितं प्रतिपादयन्नाह पंचमहब्बयजुत्तो अणलस माणपरिवजियमईओ । संविग्गनिज्जरही किहकम्मकरो हवइ साहू॥११९७ ।। व्याख्या-पश्च महानतानि-प्राणातिपातादिनिवृत्तिलक्षणानि तैयुक्तः 'अणलस'त्ति आलस्यरहितः 'मानपरिवर्जितमतिः' जात्यादिमानपराङ्मुखमतिः 'संविग्नः प्राग्व्याख्यात एव 'निर्जरार्थी' कर्मक्षयाथीं, एवम्भूतः कृतिकर्मकारको भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थः ॥ ११९७ ॥ गतं केनेति द्वारं, साम्प्रतं 'कदे' त्यायातं, |कदा कृतिकर्म कर्तव्यं कदा वा न कर्तव्यं , तत्र वक्खित्तपराहुत्ते अ पमत्ते मा कया हु बंदिजा । आहारं च करितो नीहारं वा जइ करे ।। ११९८॥ र व्याख्या-व्याक्षिप्तं धर्मकथादिना 'पराहुत्ते य' पराङ्मुखं, चशब्दादुद्भू(स्थि)तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा पुर्वन्तं नीहारं वा यदि करोति, इह च-धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीरा-18 निर्गमनादयो दोषाः प्रपश्चन वक्तव्या इति गाथार्थः ॥ ११९८ ।। कदा तर्हि वन्देतेत्यत आह CREASEKACCIENCE दीप अनुक्रम [९..] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~218~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy