________________
आगम
(४०)
Zafa
प्रत
सूत्रांक
||..||
दीप
अनुक्रम
[s..]
आवश्यकहारिभद्वीया
॥ ५२६ ।।
[भाग-३०] “आवश्यक”– मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [३], मूलं [-] / [गाथा - ७...], निर्युक्तिः [११३६], भाष्यं [२०४...],
पद्वारेण मनसि कृत्वा नमस्करोतु, न, तेषां सावद्यकर्मयुक्ततयाऽध्यारोपविषयलक्षणविकलत्वात्, अविषये चाध्यारोपं | कृत्वा नमस्कुर्वतो दोषदर्शनाद् ॥ ११३६ ॥ आह च
जह वेलंबगलिंग जाणंतस्स नमओ हवद दोसो । निधसमिय नाऊण वंदमाणे धुवो दोसो | ११३७ ॥ व्याख्या यथा 'विडम्बकलिङ्गं' भाण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः ' नमस्कुर्वतः सतोऽस्य भवति 'दोषः' प्रवचनहीलनादिलक्षणः, 'निद्धन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकम् 'इय' एवं 'ज्ञात्वा' अवगम्य 'वन्दमाणे धुवो दोसो' वन्दति नमस्कुर्वति सति नमस्कर्तरि ध्रुवः - अवश्यंभावी दोषः - आज्ञाविराधनादिलक्षणः, पाठान्तरं वा- 'निद्धंध संपि णाऊणं वंदमाणस्स दोसा उ' इदं प्रकटार्थमेवेति गाथार्थः ॥ ११३७ ॥ एवं न लिङ्गमात्र मकारणतोऽवगतसावद्यक्रियं नमस्क्रियत इति स्थापितं, भावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेवावगन्तव्यं भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात्, रूपकदृष्टान्तश्चात्र, आह च
रुपं टंकं विसमाहयक्खरं नवि रूवओ छेओ । दुपहंपि समाओगे रूवो छेयत्तणमुवे ।। ११३८ ।। व्याख्या - अत्र तावच्चतुर्भङ्गी-रूपम् अशुद्धं टङ्कं विषमाहताक्षरमित्येकः, रूपमशुद्धं टङ्कं समाहताक्षर मिति द्वितीयः, रूपं शुद्धं टङ्कं विषमाहताक्षरमिति तृतीयः रूपं शुद्धं टङ्कं समाहताक्षर मिति चतुर्थः, अत्र च रूपकल्पं भावलिङ्गं टङ्कल्पं द्रव्यलिङ्गम्, इह च प्रथमभङ्गतुल्याश्चर कादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्, तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमात्रं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः
३ वन्दनाध्ययने लिङ्मात्रनतौ दोषाः
~ 189~
||५२६॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः