________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [३], मूलं ] / [गाथा-७...], नियुक्ति: [११३५], भाष्यं [२०४...],
प्रत
सूत्रांक
||७..||
व्याख्या-यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा-व्रतादयस्तेषु सङ्कल्प:--अध्यवसायः मुनिगुणसङ्कल्पस्तस्य | कारणं-निमित्तं मुनिगुणसङ्कल्पकारणं 'लिङ्गं द्रव्यलिङ्गं, तथाऽपि प्रतिमाभिः सह वैधय॑मेव, यत उभयमप्यस्ति लिङ्गेसावद्यकर्म निरवधकर्म च, तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफला, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः, क्लेशफलश्चासौ, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति, चेष्टारहितत्वात् , ततश्च तासु जिनगुणविषयस्य केशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रति
मानाम् , आह-इत्थं तर्हि निरवद्यकर्मरहितत्वात् सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एवं प्राप्त इति, उच्यते, तस्य दातीर्थकरगुणाध्यारोपेण प्रवृत्ते भाव इति गाथार्थः ॥ ११३५ ॥ तथा चाऽऽह
नियमा जिणेसु उगुणा पडिमाओ दिस्स जे मणे कुणइ । अगुणे उ वियाणंतो कं नमउ मणे गुण का ॥११३६॥ | व्याख्या-'नियमादिति नियमेनावश्यतया 'जिनेष्वेव' तीर्थकरेष्वेव, तुशब्दस्यावधारणार्थत्वात् , 'गुणाः' ज्ञाना-II ४ दयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् 'मनसि करोति' चेतसि स्थापयति पुनर्नमस्करोति, अत
एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावद्यकर्मरहितत्वात् , न चायं तासु निरवद्यकाभावमात्राद्विपर्यासस|ङ्कल्पः, सावद्यकर्मोपेतवस्तुविषयत्वात्तस्य, ततश्चोभयविकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्ति-IN 18| युक्तः, 'अगुणे उ' इत्यादि अगुणानेव, तुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव 'विजानन्' अवबुध्यमानः पाश्व
स्थादीन् 'कं नमउ मणे गुणं का' के मनसि गुणं कृत्वा नमस्करोतु तानिति, स्यादेतत्-अन्यसाधुसम्बन्धिनं तेष्वध्यारो-|
SHANKARACK
दीप
अनुक्रम
[९..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति:
~188