SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं ] / [गाथा-७...], नियुक्ति : [११३८], भाष्यं [२०४...], प्रत सूत्रांक %%% 85454-5949 ||७..|| गच्छगता निर्गताश्च जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गतः 'अच्छेक' इत्यविकल इति तदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते, एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकाधिनो यतो न नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना, अक्षराणि त्वेवं नीयन्ते-रूपं शुद्धाशुद्धभेदं, टङ्क विषमाहताक्षरंविपर्यस्तनिविष्टाक्षरं, नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाहताक्षरटङ्कयोः समायोगे सति |रूपकश्छेकत्वमुपैतीति गाथार्थः॥ ११३८ । रूपकदृष्टान्ते दान्तिकयोजना निदर्शयन्नाहरुप्पं पत्तेयबुहा टंक जे लिंगधारिणो समणा व्वस्स य भावस्स य छेओ समणो समाओगो ॥११३९॥ दारं ॥ व्याख्या-रूपं प्रत्येकवुद्धा इत्यनेन तृतीयभङ्गाक्षेपः, टई ये लिङ्गधारिणः श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति, तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे-समाहताक्षरटङ्कशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थः ॥११३९॥ व्याख्यातं सप्रपञ्चं वैडूर्यद्वारं, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गबीजमिच्छति, यतः किल एवमागमः-'जं' अण्णाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं। तं णाणी तिहि गुत्तो खवेद उसासमित्तेणं ॥१॥ तथा-'सुई जहा ससुत्ता ण णासई कयवरंमि पडियावि । जीवो तहा ससुत्तो ण णस्सइ गओऽपि संसारे ॥२॥ तथा-'णाणं गिण्हइ णाणं गुणेइ णाणेण कुणइ किच्चाई । भवसंसारसमुई यदज्ञानी कर्म क्षपयति बटुकाभिवर्षकोटीभिः । तज्ञानी त्रिनिर्गतः अपषस्युच्छ्वासमानेन || सूचिधा ससूत्रा न नश्यति कचवरे पतिवाऽपि। जीवसथा ससूत्रो न नश्यति गतोऽपि संसारे ॥२॥ ज्ञानं गृहाति ज्ञानं गुणयति ज्ञानेन करोति कृयानि । भवसंसारसमुहं ज्ञानी ज्ञाने स्थितस्तरति ॥३॥ दीप अनुक्रम 5% [९..] 4 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~190
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy