SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५५], भाष्यं [१५१...] हारिभद्रीया प्रत ॥४४॥ SC- सूत्रांक दिग्द्वयप्रसारणान्मन्धसदृशं मन्यानं करोति लोकान्तप्रापिणमेव, एवं च लोकस्य प्रायो बहु परिपूरितं भवति, मन्थान्त- नमस्कार. राण्यपूरितानि भवन्ति, अनुश्रेणिगमनात् , चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च वि०१ सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्कक्रमात् प्रतिलोम मन्थान्तराणि संहरति-जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठे समये मन्थानमुपसंहरति धनतरसङ्कोचात् , सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचात्, अष्टमसमये दण्डमुपसंहृत्य शरीरस्थ एव भवति । अमुमवार्थं चेतसि निधायोक्तं दण्डकपाट मन्थान्तराणि संहरणता प्रतिलोममिति गम्यते, शरीरस्थ इति वचनात् , न चैतत् स्वमनीषिकाव्याख्यानं, यत उक्तम्-प्रथमे समये दण्डं कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे। सप्तमके तु कपाट संहरति ततोऽष्टमे दण्डम् ॥२॥” इति । तस्येदानी समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्चमनोवाकायाः, अत्रैषां कः कदा व्याप्रियते ?, तत्र हि मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् , काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिकयोग एव, द्वितीयषष्ठसप्तमे समये पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चमेषु तु बहिरेवौदारिकात् बहुतरप्रदेशव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनादिति, अन्यत्राप्युक्तम्-"औदारिकप्रयोका प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोका सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीरयोगी चतुर्थके पश्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भव-18४४०॥ त्यनाहारको नियमाद् ॥२॥” इति, कृतं प्रसङ्गेन । भाषायोगनिरोध इति, कोऽर्थः १-परित्यक्तसमुद्घातः कारणवशाद् अनुक्रम SERCES पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: ~17~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy