________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-३०] “आवश्यक”– मूलसूत्र - १/३ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा-], निर्युक्ति: [ ९५५], भाष्यं [ १५१...]
योगत्रयमपि व्यापारयेत्, तदर्थे मध्यवर्तिनं योगमाह - भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृपं वा प्रयुङ्क्ते, एवमामन्त्रणादी वाग्योगमपि, नेतरौ द्वौ भेदौ द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततोऽन्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते - जघन्येनैतावता कालेन उत्कृष्टतस्तु षड्निमासैरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष' मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात् एवं च सति ग्रहणमपि स्याद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनःपर्याप्तिनिर्वृत्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तद्व्यापारं निरुध्य च 'पेज्जत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होंति मणोदवाई तबावारो य जम्मत्तो १ ॥ तदसंखगुणविहीणं समए २ निरंभमाणो सो । मणसो सबनिरोहं करेज्जsसंखेज्जसमएहिं ॥ २ ॥ पज्जत्तमेत्तर्वेदिय जहन्नवयजोगपज्जया जे य । तदसंखगुणविहीणे समए समए निरंतो ॥ ३ ॥ सबब जोगरोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमयोववञ्चस्स ॥ ४ ॥ जो किर जोगो तदसंखेज्जगुणहीणमेकिके समय निरंभमाणो देहतिभागं च मुचतो ॥ ५ ॥ रुभइ स कायजोगं संखाईएहि चैव समएहिं
1 पर्याप्तमात्रसहितो यावन्ति जघन्ययोगस्य । भवन्ति मनोद्रव्याणि तद्वयापारश्च यावन्मात्रः ॥ ३ ॥ वदसंख्यगुणविद्दीनं समये समये निरुन्धन् सः । मनसः सर्वनिरोधं कुर्यादसल्येयमयैः ॥ २ ॥ पर्यासमात्रद्वीन्द्रियस्य जघन्यवचः पर्यवा यावन्तः । तदसङ्ख्येयगुणविहीनान् समये समये निरुन्धन् ॥ ३ ॥ सर्ववचोयोगरोधं संख्यातीतः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥ ४ ॥ यः किल जम्यो योगस्तद्येयगुणद्दीनमेकैकस्मिन् । समये निरुन्धन् देह त्रिभागं च सुधन् ॥ ५ ॥ रुणद्धि स काययोगं संख्यातीतैरेव समयैः ।
For Parts at Le Only
nirg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि रचिता वृत्तिः
~18~