SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं [-] / [गाथा-७...], नियुक्ति: [११०२...], भाष्यं [२०३...] 20-160* - -00-00 प्रत सूत्रांक ||७..|| अथ तृतीयं वन्दनाध्ययनम् साम्प्रतं चतुर्विंशतिस्तवानन्तरं वन्दनाध्ययनं, तस्य चायमभिसम्बन्धः, अनन्तराध्य यने सावद्ययोगविरतिलक्षणसामा-18 दायिकोपदेष्टणामहतामुत्कीर्तनं कृतम्, इह त्वहंदुपदिष्टसामायिकगुणवत एवं चन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपाद्यते, यद्वा-चतुर्विंशतिस्तवेऽहंद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः, यथोक्तम्-'भत्तीऐं जिणवराणं खिजंती पुवसंचिआ कम्मत्ति, वन्दनाध्ययनेऽपि कृतिकर्मरूपायाः साधुभक्तेस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-"विणओवयार माणस्स भंजणा पूयणा गुरुजणस्सू । तित्थगराण य आणा सुयधम्माराहणाऽकिरिया ॥१॥" अथवा सामायिके चारित्रमुपवणितं, चतुर्विंशतिस्तवे त्वहतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदं त्रितयमुक्तम् , अस्य च वितथासेवनायामै हिकामुष्मिकापायपरिजिहीर्षणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि समपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरू-| प्यते-वदि अभिवादनस्तुत्योः' इत्यस्य करणाधिकरणयोश्चे (पा०३-३-११७)ति ल्युट् 'युवोरनाकावि'(पा०७-१-१)त्यनादेशः, द'इदितो नुम् धातोरिति (पा०७-१-५८)नुमागमः, ततश्च वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाकायव्यापारजालेनेति वन्दनम्, अस्थाधुना पर्यायशब्दान् प्रतिपादयन्निदं गाथाशकलमाह नियुक्तिकार: बंदणचिइकिइकम्मं पूयाकर्म च विणयकम्मं च। विनयोपचारः मानव भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधाराधनाऽक्रिया ॥१॥ दीप अनुक्रम [९..] REACROR पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: • अत्र अध्ययनं -३- 'वन्दनं' आरभ्यते ~158~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy