________________
आगम
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [२], मूलं I [गाथा-७], नियुक्ति: [११०२], भाष्यं [२०३...]
(४०)
आवश्यक हारिभद्रीया
२चतुविशतिस्तवाध्य.
प्रत सूत्रांक
॥५१०॥
||७||
अस्य व्याख्या-इह प्राकृतशैल्या आषत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदेहिं निम्मलयर'त्ति, तत्र सकलकर्ममलापगमाञ्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकप्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च नियुक्तिकार:-'चंदाइञ्चगहाण'मित्यादि, तथा सागरवरादपि गम्भीरतराः, तत्र सागरवर:-स्वयम्भूरमणोऽभिधीयते परीपहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीरतरा इति भावना, सितं-मा-1 तमेतेषामिति सिद्धा, कर्मविगमात् कृतकृत्या इत्यर्थः, सिद्धि-परमपदप्राप्तिं 'मम दिसंतु'मम प्रयच्छन्विति सूत्रगाथार्थः। ॥ ७॥ साम्प्रतं सूत्रस्पर्शिकनियुक्त्यैनामेव गाथा लेशतो व्याख्यानयन्नाह
चंदाइचगहाण पहा पयासेइ परिमिअं खितं । केवलिअनाणलंभो लोगालोग पगासेह ॥ ११०२॥ व्याख्या-चन्द्रादित्यग्रहाणा'मिति, अत्र ग्रहा अङ्गारकादयो गृह्यन्ते, 'प्रभा' ज्योत्स्ना 'प्रकाशयति' उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तद्व्यपदेशा, यथा मश्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोक 'प्रकाशयति' सर्वधर्मेरुद्योतयतीति गाथार्थः ॥ ११०२॥ उक्तोऽनुगमः, नयाः सामायिकबद् द्रष्टच्याः ॥ इति चतुर्विशतिस्तवटीका समाप्तेति ॥ व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन । जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भव्याः॥१॥
इति श्रीचतुर्विंशतिस्तवाध्ययनं सभाष्यनियुक्तिवृत्ति समाप्तम् ॥
दीप
अनुक्रम
॥५१०
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: अत्र अध्ययनं -२- 'चतुर्विंशति:' परिसमाप्तं
~157.