________________
आगम (४०)
[भाग-३०] "आवश्यक"- मूलसूत्र-१/३ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [२], मूलं I [गाथा-६], नियुक्ति: [११००], भाष्यं [२०३...]
प्रत
सूत्रांक
CBSEASESAKASEARCH
स्यादेतद्, एवं सत्याद्यस्य बोधिलाभस्थासम्भव एवोपन्यस्तः, वासनाऽभावात् , न, अनादिसंसारेराधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदावेदितमेवोपोद्घात इत्यलं विस्तरेणेति गाथाद्वयार्थः ॥१०९९-११००॥ तस्मात्सति बोधिलाभे तपस्संयमानुष्ठानपरेण भवितव्यं, न यत्किश्चिञ्चैत्याद्यालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्सं-18 यमोद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात् , तथा चाऽऽह
चेइयकुलगणसंघे आयरिआणं च पवयण सुए अ । सब्वेमुवि तेण कयं तवसंजममुज्जमतेणं ॥११०१॥ द्रा व्याख्या-चैत्यकुलगणसद्धेषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च, किं?, सर्वेष्वपि तेन कृतं, कृत्यमिति
गम्यते, केन?, तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि-अर्हत्प्रतिमालक्षणानि, कुलं-विद्याधरादि, गणः-कुलसमुदायः सङ्घ-समस्त एव साध्वादिसङ्घातः, आचार्याः-प्रतीताः, चशब्दादुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम् , एवमन्यत्रापि द्रष्टव्यं, प्रवचन-द्वादशाङ्गमपि सूत्रार्थतदुभयरूपं, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः,
एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते, इयमत्र भावना-अयं हि नियमात् ज्ञानदर्शनस-] सम्पन्नो भवति अयमेव च गुरुलाघवमालोच्य चैत्यादिकृत्येषु सम्यक प्रवर्तते यथैहिकामुष्मिकगुणवृद्धिर्भवति, विपरीतस्तु।
कृत्येऽपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः ॥ ११०१॥ एवं तावद्गतं सूत्रमूल एवं मए अभिथुए'त्यादि गाथाद्वयं, साम्प्रतं
चंदेसु निम्मलयरा आइन्चेसु अहिअं पयासयरा । सागरवरगंभीरा सिहा सिद्धिं मम दिसंतु ॥७॥
अनुक्रम [८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्ति: | मूलसूत्रस्य गाथा-७ एवं तस्या व्याख्या
~156~