SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक |||| दीप अनुक्रम [<] आवश्यक हारिभ द्वीया ॥५०९॥ [भाग-३०] “आवश्यक”– मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा-६ ], निर्युक्तिः [१०९८], भाष्यं [२०३...] भत्ती जिणवराणं परमाएखीणपिल्लदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पार्वति ॥। १०९८ ।। व्याख्या— भक्त्या जिनवराणां किंविशिष्टया :-'परमया' प्रधानया भावभक्त्येत्यर्थः, 'क्षीणप्रेमद्वेषाणां' जिनानां, किम् ?, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावना - जिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणं च प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यं समाधिमरणप्राप्तौ नियमत | एव तत्प्राप्तिरिति गाथार्थः ॥ १०९८ ॥ साम्प्रतं बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्वोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वमधिकृत्योपदेशिकमिदं गाथाद्वयमाहलद्विल्लिअं च बोहिं अकरितोऽणागयं च पत्थंतो । दच्छिसि जह तं विन्भल ! इमं च अन्नं च चुकिहिसि ।। १०९९॥ लडिल्लिअं च षोहिं अकरिंतोऽणागयं च पत्थंतो । अन्नंदाई योहिं लग्भिसि कयरेण मुल्लेण १ ॥ ११०० ॥ व्याख्या—'उद्धेल्लियं च'त्ति लब्धां च प्राप्तां च वर्तमानकाले, कां?, 'बोधिं' जिनधर्मप्राप्तिम्, 'अकुर्वन्' इति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन् किम् ?, द्रक्ष्यसि यथा त्वं हे विह्वल !जडप्रकृते ! इमां चान्यां बोधिमधिकृत्य, किं ?, 'चुकिहिसि' देशीवचनतः भ्रश्यसि, न भविष्यतीत्यर्थः ॥ तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन, अन्नंदाईति निपातः असूयायाम्, अन्ये तु व्याचक्षते - अन्यामिदानीं बोधिं लप्स्यसि, किं ?, कतरेण मूल्येन ?, इयमत्र भावना - बोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्प्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः, २ चतुर्वि शतिस्तवाध्य. ~ 155 ~ ॥५०९ ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy