________________
आगम
(४०)
प्रत सूत्रांक
||||
दीप
अनुक्रम
[4]
[भाग-३०] “आवश्यक”– मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा-६ ], निर्युक्तिः [१०९५], भाष्यं [२०३...]
उच्यते, सत्यमेतत्, नवरं भक्त्या भाषितैषा, अन्यथा नैव 'क्षीणप्रेमद्वेपाः' क्षीणरागद्वेश इत्यर्थः, 'ददति' प्रयच्छन्ति, किं न प्रयच्छन्ति ?, अत आह-समाधिं च बोधिं चेति गाथार्थः ॥ १०९५ ॥ किं च-
जं तेहिं दावं तं दिनं जिणवरेहिं सम्वेहिं । दंसणनाणचरितस्स एस तिविहस्स उवएसो ॥ १०९६ ।। व्याख्या - यत्तैर्दातव्यं तद्दत्तं जिनवरैः 'सर्वैः' ऋषभादिभिः पूर्वमेव, किं च दातव्यं ? - दर्शनज्ञान चारित्रस्य सम्बन्धिभूतः आरोग्यादिप्रसाधर्क एप त्रिविधस्योपदेशः, इह च दर्शनज्ञानचारित्रस्येत्युक्तं मा भूदिदमेकमेव कस्यचित्सम्प्रत्यय इत्यतस्तद्व्युदासार्थं त्रिविधस्येत्याहेति गाथार्थः ॥ १०९६ ॥ आह-यदि नाम दत्तं ततः किं साम्प्रतमभिलषितार्थप्रसाधनसामर्थ्यरहितास्ते ?, ततश्च तद्भक्तिः कोपयुज्यते इति ?, अत्रोच्यते
भत्तीइ जिणवराणं विजंती पुत्र्वसंचिआ कम्मा | आयरिअनमुकारेण विज्जा मंता य सिज्यंति ॥ १०९७ ॥ व्याख्या- 'भक्त्या' अन्तःकरणप्रणिधानलक्षणया 'जिनवराणां' तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं ?, 'क्षीयन्ते' क्षयं प्रतिपद्यन्ते 'पूर्वसञ्चितानि' अनेकभवोपात्तानि 'कर्माणि' ज्ञानावरणादीनि इत्थंस्वभावत्वादेव तद्भरिति, अस्मि - नेवार्थे दृष्टान्तमाह तथाहि - आचार्यनमस्कारण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भक्तिमतस्तत्त्वस्य शुभपरिणामत्वात्तत्सिद्धिप्रतिबन्धककर्मक्षयादिति भावनीयं, गाथार्थः ॥ १०९७ ॥ अतस्साध्वी तद्भक्तिः, वस्तुतोऽभिलषितार्थप्रसाधकत्वाद्, आरोग्यबोधिलाभादेरपि तन्निर्वर्त्यत्वात् तथा चाऽऽह
* मोक्षमार्गकारणमिति ज्ञानविषयः
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 154 ~