SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ||..|| दीप अनुक्रम [s..] आवश्यक हारिभ द्वीया ॥५११॥ [भाग-३०] “आवश्यक”- मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [३], मूलं [-] / [गाथा ७...], निर्युक्तिः [११०२...], भाष्यं [२०३ ...] वन्दनप वन्दनं निरूपितमेव, 'चि चयने' अस्य 'स्त्रियां क्तिन्' ( पा० ३-३-९४ ) कुशलकर्मणश्च चयनं चितिः, कारणे कार्योपचाराद्वजोहरणायुपधिसंहतिरित्यर्थः चीयते असाविति वा चितिः, भावार्थः पूर्ववत् 'डुकृञ् करणे' अस्यापि क्तिन्प्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः क्रियतेऽसाविति वा कृतिः - मोक्षायावनामादिचेष्टय, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एवं तासां वा कर्म वन्दनचितिकृतिकर्म, र्यायाः कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चायं, क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मे ( पा० १-४-४९ ) ति ४ वचनात् कचित् ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' ( तत्त्वा० अ० १० सू० ३ ) इति वचनात् ‍ क्वचित् क्रियावाचकः, 'गन्धर्वा रञ्जिताः सर्वे, सङ्ग्रामे भीमकर्मणेति वचनात् इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल' ( पा०३ - ३ १०३ ) इत्यप्रत्ययान्तस्य पूजनं पूजा-प्रशस्तमनोवाक्काय चेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजा क्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्दः पूजाक्रियाया वन्दनादिक्रियासाम्य प्रदर्शनार्थः,'णीञ् प्रापणे' इत्यस्य एरचि( पा०३-३-५६ ) ति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते वाडनेनाष्टप्रकारं कर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः ॥ आह काय कस्स व केण वाव काहे व कखुतो ! ॥ ११०२ ॥ कहओणयं कइसिरं कइहिं च आवस्सएहि परिसुद्धं कहदोसविप्यमुकं किकम्मं कीस कीरइ वा १ ॥११०३ ॥ ३ वन्दना ध्ययने ~ 159~ ॥५११॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः 'वन्दन' कृतिकर्मादि भेदानाम व्याख्या कथानकसहितं
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy