________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
आवश्यकहारिभ
द्वीया
॥४३९ ॥
[भाग-३०] “आवश्यक”– मूलसूत्र - १/३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा-], निर्युक्ति: [ ९५३ ], भाष्यं [ १५१...]
दीर्घकालरयं, सन्तानोपभोग्यत्वादिति भावनां, यद्भव्यकर्म 'सेसित' मिति श्लेषितमिति संश्लिष्टं लेश्यानुभावात् अष्टधा सितमित्यादि पूर्ववत्, अथवाऽन्यथा व्याख्यायते दीर्घकालरज इति, तत्र रज इव रजः सूक्ष्मतया स्नेहबन्धनयोग्यत्वाद्वा रज इस्युच्यते, यद्भव्यकर्मेति च नैवं व्याख्यायते, साक्षात्कर्माभिधानेन सर्वनाम्नो निरर्थकत्वात्, प्रकरणादेव भव्यस्यावगम्यमानत्वाद् अभव्यस्व सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते जन्तुः - जीवस्तस्य कर्म जन्तुकर्म, अनेनावकर्मव्यवच्छेदमाह तच्च' से' तस्य जन्तोः 'असितम्' असितमिति कृष्णमशुभं संसारानुबन्धित्वात् एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थः ॥ प्रथमव्याख्यापक्षमधि| कृत्य सम्बन्धमाह-तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात् ?, न तावत् समस्थिति विषमनिबन्धनत्वात्, नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवादिति, एतदयुक्तम् उभयथाऽप्यदोषात्, तथाहि - विषमनिबन्धनत्वे सत्यपि विचित्रक्षयसम्भवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत् स्वमनीषिकयैवोच्यते, यत आह नियुक्तिकारः
नाण अणि अबहुअं आउअं च धोवागं । गंतूण समुग्धायं खवंति कम्मं निरवसेसं ॥ ९५४ ॥
व्याख्या- 'ज्ञात्वा' केवलेनावगम्य, किं ? - वेदनीयं कर्म, किंभूतं ?--'अतिबहु' शेषभवोपग्राहि कर्मापेक्षयाऽतिप्रभूतमित्यर्थः, तथाssयुष्कं च कर्म 'स्तोकम्' अल्पं, तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य 'समुद्घातम्' इति सम्यगअपुनर्भावेनोत् प्रावस्येन कर्मणो हननं घातः- प्रलयो यस्मिन् प्रयत्नविशेषेऽसौ समुद्घात इति तम्, 'क्षपयन्ति' विनाश
Education national
For First Use Only
नमस्कार० वि० १
~15~
॥४३९॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः 'समुद्घातः, तस्य व्याख्या एवं स्वरुपम् इत्यादि