SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] [भाग-३०] “आवश्यक”– मूलसूत्र - १/३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [–], मूलं [१/गाथा - ], निर्युक्ति: [ ९५३], भाष्यं [१५१...] भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छन्दः सर्वनामत्वादुद्देशवचनः, यत्कर्मेत्थंप्रकारं, तुशब्दो भव्यकर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्मायत इति, ततश्च यद्भव्यकर्मेति 'शेषितम्' इति शेषं कृतं शेषितं स्थित्यादिभिः प्रभूतं सत् स्थितिसङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शन ज्ञानचरणाद्युपायतः शेषम् - अल्पं कृतमिति भावः, प्राकू किंभूतं सच्छेषितम् ? इत्याह- 'अष्टधा सितम्' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं 'सित वर्णबन्धनयो 'रिति वचनात् सितं| बद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति तच्छेषितं सितं कर्म धमातं, 'धमा शब्दाग्निसंयोगयोरिति वचनात् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं ? - सिद्धत्वमुपजायते, नासिद्धस्य, 'अध्योऽसिद्धो न सिध्यतीति वचनादू, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव सदनादिकर्मावृतं तदावरणविगमेनाऽऽविर्भवति तत्त्वतः तथाऽपि लौकिकवाचोयुक्त्या व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत्, तथा चाऽऽहुरेके- 'दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ १ ॥ इत्यादि, एवंविधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्याव्यसिद्धत्वात्, तथाहि तत्र त एव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवाऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रयः- वेगः चेष्टाऽनुभवः फलमित्यनर्थान्तरं ततश्च दीर्घकालो रयोऽस्येति १ भवे संसारे भवो भव्यः अभव्य इत्यर्थः Education intimational For Farina Pen पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः ~14~
SR No.035030
Book TitleSavruttik Aagam Sootraani 1 Part 30 Aavashyak Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages464
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy