________________
आगम
(४०)
प्रत सूत्रांक
||||
दीप
अनुक्रम
[3]
%%
[भाग-३०] “आवश्यक” - मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा - १], निर्युक्तिः [१०५७...], भाष्यं [१९६]
अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यद् द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः ॥ १९५ ॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह
गइ १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अणागयद्वा य २ ।
तीअद्ध ३ तिनि काया ४-२ जीवा १ जीव २ डिई चउहा ।। १९६ ॥ ( भाष्यम् )
व्याख्या - अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाथपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । द्वारम् ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्रआगासस्स पएसा उहुं च अहे अ तिरियलोए अ । जाणाहि खित्तलोगं अनंत जिणदेसिअं सम्मं ॥ १९७॥ (भा० )
व्याख्या - आकाशस्य प्रदेशाः - प्रकृष्टा देशाः प्रदेशास्तान् 'ऊर्ध्वं च' इत्यूर्ध्वलोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च किं ?- जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यकू' शोभनेन विधिनेति गाथार्थः ॥ १९७ ॥ साम्प्रतं काललोकप्रतिपादनायाहसमयावलिअमुहुता दिवस महोरत्तपक्खमासा य । संवच्छर जुगपलिआ सागरओसप्पिपरिअड्डा || १९८|| (भा०)
- इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्य समयमाना स्वावलिका द्विघटिको मुहूर्तः पोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्यो
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~126~