________________
आगम
(४०)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[3]
आवश्यकहारिभ
द्रीया
॥४९५॥
[भाग-३०] “आवश्यक”– मूलसूत्र - १ / ३ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [२], मूलं [-] / [गाथा - १], निर्युक्ति: [ १०५७...], भाष्यं [१९८]
|पममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, 'परावृर्तः' पुलपरावर्तः, स चानन्तोत्सर्पिष्यवसर्पिणीप्रमाणो द्रव्यादिभेदः तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः ॥ १९८ ॥ उक्तः काललोकः, लोकयोजना पूर्ववद् । अधुना भावलोकमभिधित्सुराहरह अदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तंमि भवे वहंता भवलोगं तं विआणा हि ॥ १९९॥ (भा०) व्याख्या - नारक देवमनुष्यास्तथा तिर्यग्योनिगताश्च ये 'सत्त्वाः' प्राणिनः 'तंमिति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि लोक योजना पूर्ववदिति गाथार्थः ॥ १९९ ॥ साम्प्रतं भावलोकमुपदर्शयतिओदइए १ ओषसमिए २ खइए अ ३ तहा खओवसमिए अ ४ ।
परिणामि ५ सन्निवाए अ ६ छब्बिहो भावलोगो उ ॥ २०० ॥ ( भाष्यम् )
व्याख्या -- उदयेन निर्वृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यं ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च एवं षड्विधो भावलोकस्तु तत्र सान्निपातिक ओघतोऽनेक भेदोऽवसेयः, अविरुद्धस्तु पश्चदशभेद इति उक्तं च- "ओदइअखओवसमे परिणामेकेको (कु) गइचउकेऽवि । खयजोगेणवि चउरो तदभावे उवसमेपि ॥ १ ॥ उबसमसेढी एक्को केवलिणोऽवि य तहेब सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेव पण्णरस ॥ २ ॥ "त्ति गाधार्थः ॥ २०० ॥
२ चतुर्वि शतिस्तवाध्यठोकनिक्षेपः
१ मौदयिकः क्षायोपशमिकः पारिणामिक एकैको गति चतुष्केऽपि क्षययोगेनापि चत्वारः तदभावे उपशमेनापि ॥ १ ॥ उपशम श्रेणाचैकः केवलिनोऽपि ४ च तथैव सिद्धस्य अविरुद्धसाक्षिपातिकभेदा एवमेव पञ्चदश ॥ २ ॥
||४९५||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरि-रचिता वृत्तिः
~ 127 ~