________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [- /गाथा-], नियुक्ति: [७०६], भाष्यं [१२२...]
चोत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नासन्ने नातिदूरे व्यवस्थिताः सन्तः, किम् ?- गुरुवचनप्रतीच्छका भवन्ति-शृण्वन्तीति गाथार्थः ॥ साम्प्रतं श्रवणविधिप्रतिपादनायाहणिहाविगहापरिवजिएहिं गुसेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयध्वं ।। ७०७॥ अभिकखंतेहिं सुहासिया वयणाई अस्थसाराई । विम्हियमुहहिं हरिसागएहिं हरिसं जणतेहिं ॥७०८॥
गाथाद्वयं निगदसिद्धं । नवरं 'हरिसागएहिं ति सञ्जातहरित्यर्थः, अन्येषां च संवेगकारणादिना हर्षे जनयनिः, एवं च शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति ॥ ततः किमित्याह
गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं । इच्छियसुत्सस्थाणं खिप्पं पारं समुवति ।। ७०९॥ व्याख्या-'गुरुपरितोषगतेन' गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किम् , सम्यक्सद्भावप्ररूपणया दाईप्सितसूत्रार्थयोः 'क्षि' शीघ्रं पारं समुपयान्ति-निष्ठां वजन्तीति गाथार्थः॥
वक्खाणसमत्तीए जोगं काऊण काइयाईणं । वंदति तओ जेडं अण्णे पुव्वं चिय भणन्ति ॥ ७१०॥ निगदसिद्धा । नवरम् , अन्ये आचार्या इत्थमभिदधति-किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति । द्वारगाथापश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराहचोएति जइहु जिट्ठो कहिंचि सुत्तस्थधारणाविगलो। वक्खाणलद्धिहीणो निरत्ययं वंदणं तंमि ॥७११ ॥ निगदसिद्धा । नवरं निरर्थक वन्दनं, तस्मिंस्तत्फलस्य प्रत्युच्चारकश्श्रवणस्याभावादिति भावना ।
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~98~