SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [६८४], भाष्यं [११९...] भेदयुक्तेन 'प्रतिक्रान्तो' निवृत्तो यस्तस्माहुष्कृतकारणात् तस्यैव, खलुशब्दोऽवधारणे, 'दुष्कृतं प्रागुक्तं दुष्कृतफलदातत्वमधिकृत्य 'मिथ्ये'ति मिथ्या, भवतीति क्रियाध्याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः ॥ साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाह जं दुक्कडंति मिच्छा तं व निसेवए पुणो पावं । पञ्चक्खमुसाबाई मायानियडीपसंगो य॥ ६८५॥ व्याख्या-'यत्' पापं किश्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेवते पुनः पापं स हि प्रत्यक्षमृषावादी वर्त्तते, कथम् १-दुष्कृतमेतदित्यभिधाय पुनरासेवनात् , तथा मायानिकृतिप्रसङ्गश्च तस्य, स हि दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुयोदिरञ्जनार्थं मिथ्यादुष्कृतं प्रयच्छति, कुतः ?, पुनरासेवनात् , तत्र मायैव निकृतिर्मायानिकृतिस्तस्याः प्रसङ्ग इति गाथार्थः ॥ कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशङ्कयाहमित्ति मिउमहबत्ते छत्ति घ दोसाण छायणे होइ । मित्ति य मेराऍ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ १८६ ॥ ___ व्याख्या-'मी' त्येवं वर्णः मृदुमादेवत्वे वर्तते, तत्र मृदुत्व-कायनयता मार्दवत्व-भावनघतेति, 'छेति च दोषस्यअसंयमयोगलक्षणस्य छादने-स्थगने भवति, 'मी'ति चायं वर्णः मर्यादायां-चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः 'दु'इत्ययं वर्णः जुगुप्सामि-निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्तत इति गाथार्थः॥ कत्ति कडं मे पावं इत्ति य डेवेमि तं उचसमेणं । एसो मिच्छाउकडपयक्खरत्यो समासेणं ॥ ६८७॥ दारं ॥ व्याख्या-'क' इत्ययं वर्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्त्तते, 'ड' इति च 'डेवेमि तंति लयामि-अतिक्र-1 CSC -- JABERatinintamatara Aansorary on पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~88~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy