SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६०८], भाष्यं [११९...] प्रमाणगोचरातिकान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाद्युति हृदयं च, तेषामयमर्थः-तत्र |'विज्ञानघनेत्यादीनां प्रथमगणधरवक्तव्यतायां व्याख्यातत्वात् न प्रदश्यते, 'सत्येन लभ्य इत्यादीनां तु सुगमत्वादिति । न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया तत्रोपलम्भासिद्धेः, न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलं, व्यभिचारदर्शनादू, यतः स्पर्शे सत्येव रूपादयः उपलभ्यन्ते, न च तद्धर्मता। तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम् , अवग्रहादीनां स्वसंवेद्यत्वात् , भावना प्रथमगणधरवत् अवसेया, अनुमानगम्योऽपि, तच्चेदम्-देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पश्चवातायनोपलब्धाोंनुस्मतृदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा एव 'सत्येन लभ्य' इत्यादिवेदपदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत् । |छिपकमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्वइओ पंचहि सह खंडियसएहिं ॥६०९॥ व्याख्या--पूर्ववत् ॥ तृतीयो गणधरः समाप्त इति । अस्य च प्रथमगणधरादिदं नानात्वं-तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिके खल्वात्मनि, न तु तस्य सत्तायामिति ॥ ते पब्वइए सोउं वियत्तो आगच्छई जिणसगासं। वच्चामि ण चंदामी पंदित्ता पज्जुवासामि ।। ६१०॥ व्याख्या तान् प्रत्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसकाश, किंविशिटेनाध्यवसायेन इत्याह-व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनं, तथा वन्दित्वा पर्युपासयामि इति 64-4 SiwanNIDrary om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~52~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy