SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५९०], भाष्यं [११९...] असङ्ग्येयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्र|तिपादनशक्तिमाह, किं बहुना ?-'न च' नैव, णमिति वाक्यालङ्कारे, 'अणाइसेसित्ति अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः,विजानाति यथा एष गणधरछद्मस्थ इति,अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः ॥५९०॥ समवसरणं समत्तं । एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे | देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्-अहो विष्टं, विग्रहवन्तः खलु देवा आगता इत्याह|तं दिव्वदेवघोसं सोऊणं माणुसा तहिं तुहा । अहो(हु) जण्णिएण जडं देवा किर आगया इहई ॥ ५९१ ।। व्याख्या-तं दिव्यदेवघोपं श्रुत्वा मनुष्याः 'तत्र' यज्ञपाटे तुष्टाः, 'अहो विस्मये, यज्ञेन यजति लोकानिति याज्ञिक नेष्टं, कुतः-एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः॥५९१ ॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह चएक्कारसवि गणहरा सब्वे उग्णयविसालकुलवंसा । पावाएँ मज्झिमाए समोसढा जन्नवाडम्मि ॥५९२॥ व्याख्या-एकादशापि गणधराः समवस्ताः यज्ञपाट इति योगः, किंभूता इत्याह-'सर्वे' निरवशेषाः उन्नता:-प्रधानजातित्वात् विशाला:-पितामहपितृव्याधनेकसमाकुलाः कुलाम्येव वंशा:-अन्वया येषां ते तथाविधा, पापायां T Indorary on पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~ 40~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy