________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
आवश्यक हारिभ• द्रीया
॥३७९ ॥
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१/गाथा -], निर्युक्ति: [ ८९० ], भाष्यं [ १५१...]
द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः । इह च भावसङ्कोचः प्रधानो द्रव्यसङ्कोचोऽपि तच्छुद्धिनिमित्त इति गाथार्थः । ८९० ॥ द्वारं । प्ररूपणाद्वारप्रतिपादनायाऽऽह
दुविहा परूवणा छप्पया य १ नवहा य २ छप्पया इणमो ।
किं १ कस्स २ केण व ३ कहिं ४ किचिरं ५ कहविहो व ६ भवे ।। ८९९ ।।
व्याख्या- 'द्विविधा' द्विप्रकारा प्रकृष्टा-प्रधाना प्रगता वा रूपणा-वर्णना प्ररूपणेति द्वैविध्यं दर्शयति-पटूपदा च नवधा च नवप्रकारा नवपदा चेत्यर्थः चशब्दात् पञ्चपदा च तत्र 'छप्पया इणमो' षट्पदेयं पटूपदा इदानीं वा, किं कस्य ? केन वा ? कवा ? कियच्चिरं ? कतिविधो वा भवेन्नमस्कार इति गाथासमुदायार्थः ॥ ८९१ ॥ तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह्
किं? जीवो तप्परिणओ (दा०१) पुत्र्वपडिवन्नओ उ जीवाणं। जीवस्स व जीवाण व पहुच पडिवजमाणं तु||८९२ ॥ व्याख्या — किंशब्दः क्षेपप्रश्ननपुंसक व्याकरणेषु, तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः सर्वनामनपुंसकनिर्देशः सर्वलिङ्गैः सह यथायोगमभिसम्बध्यते, किं सामायिकं ? को नमस्कारः ?, तत्र नैगमाद्यशुद्धनयमत्तमधिकृत्या जीवादिव्युदासेनाहजीवो नाजीवः, स च सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः यथाऽऽहुस्तन्मतावलम्बिनः-- पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहती त्यादि, तथा तन्नयविशेषापेक्षयैव मा भूदविशेषो ग्राम इत्यतो नोस्कन्धो नोग्राम इति वाक्यशेषः, सर्वास्तिकायमयः स्कन्धः, तद्देशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्क
For PPs Use Only
नमस्कार०
वि० १
~ 319~
॥३७९ ॥
ibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः