SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [८५०], भाष्यं [१५०...] आवश्यक र यवृत्तिः ॥३६॥ विभागः१ यावन्तः प्रदेशास्तावन्त एवं उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति, किन्तु देशविरतिसामा- यिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसोयगुणा इति, जघन्यतस्त्वेको द्वौ वेति । 'सेढीअसंखभागो सुएत्ति इह संवर्तितचतुरस्रीकृतलोकैकप्रदेशनिवृत्ता सप्तरज्वात्मिका श्रेणिः परिगृह्यते, तदसयेयभाग इति, तस्याः खल्वसवेयभागे यावन्तः प्रदेशास्तावन्त एव एकदोत्कृष्टतः सामान्यश्रुते-अक्षरात्मके सम्यगमिथ्यात्वानुगते विचार्य प्रतिपत्तारो भवन्तीति हृदयं, जघन्यतस्त्वेको द्वौ वेति । 'सहस्सग्गसो बिरई' सहस्रायशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति गाथार्थः ॥ ८५० ॥ प्राक्प्रतिपन्नानिदानी प्रतिपादयन्नाहसम्मत्तदेसविरया पडिवन्ना संपई असंखेना । संखेजा य चरित्ते तीसुवि पडिया अणंतगुणा ।। ८५१ ।। व्याख्या-सम्यक्त्वदेश विरताः प्रतिपन्नाः 'साम्प्रतं' वर्तमानसमयेऽसोया उत्कृष्टतो जघन्यतश्च, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एते च प्रतिपद्यमानकेभ्योऽसोयगुणा इति । अत्रैवान्तरे सामान्यश्रुतापेक्षया प्रापतिपन्नान् प्रतिपादयता 'सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता उ' इदमेष्यगाथाशकलं व्याख्येय, द्वितीय तूत्तरत्र, तत्राक्षरात्मकाबिशिष्टश्रुतप्रतिपन्नाः साम्प्रतं प्रतरस्य सप्तरज्ज्वात्मकस्यासोयभागमात्राः, असङ्ख्येयासु श्रेणिषु यावन्तः प्रदेशास्तावन्त इत्यर्थः, सोयाश्च चारित्रे प्राक्प्रतिपन्ना इति, 'त्रिभ्योऽपि' चरणदेशचरणसम्यक्त्वेभ्यः पतिताः 'अणंतगुण'त्ति प्राप्य प्रतिपतिता अनन्तगुणाः प्रतिपद्यमानकपाक्यतिपन्नेभ्यः, तत्र चरणप्रतिपतिता अनन्ताः, ॥३६॥ JABERatinintamational H andsonary on पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~283~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy