________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४८], भाष्यं [१५०...]
व्याख्या-अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधुकथनात्, तथा 'विनये' अञ्जलिप्रग्रहादाविति, 'पराक्रमें कषायजये सति, साधुसेवनायर्या च सत्यां कथञ्चित् तत्कियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेश्च विरतेश्चेति गाथार्थः ।। ८४८ ॥ कथमिति द्वारं गतं । तदित्यं लब्धं सत् कियचिरं | भवति काले !, जघन्यत उत्कृष्टतश्चेति प्रतिपादयनाह
सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई लिई । सेसाण पुब्धकोडी देसूणा होइ उकोसा ॥ ८४९॥ | व्याख्या-सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः, कथं ? 'विजयाइसु दो वारे गयस तिण्णए व कावडी । परजम्मपुषकोडी महत्तमुकोसओ अहियं ॥१॥शेषयोः देशविरतिसर्वविरतिसामायिकयोः पर्वकोटी देशोना। भवति, 'उकोसत्ति उत्कृष्टस्थितिकालः, जघन्यतस्त्वायत्रयस्यान्तर्मुहूर्त, सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामारम्भसमयानन्तरमेवाऽऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमौहर्तिक एव, नियमितप्राणातिपातादिनिवृतिरूपत्वात्, उपयोगापेक्षया तु सर्वेषामन्तर्मुहूर्तः सर्वजीवानां तु सर्वाणि सर्वदैवेति गाथार्थः ॥ ८४९ ॥ द्वारम् ॥ अधुना | कइति द्वारं व्याख्यायते-कतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारः प्राक्प्रतिपन्नाः प्रतिपतिता वेति, अत्र प्रतिपद्यमानकेभ्यः प्राक्प्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयन्नाह
सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ। सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥८५०॥ व्याख्या-सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपलितस्यासमवेयभागमात्रा एव, इयं भावना क्षेत्रपलितासङ्ग्येयभागे
JABERasaid
Phoneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~282~