________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [– / गाथा-], निर्युक्ति: [५६०...], भाष्यं [११९]
गमनिका — समहेन्द्राः कल्पसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः ॥ भावार्थः सर्वासां सुगम एव ॥ अभिहितार्थोपसङ्ग्रहाय इदमाह
एकेकी दिसाए rिi तिगं होइ सन्निविद्धं तु । आदिचरिमे विभिस्सा धीपुरिसा सेस पत्तेयं ॥ ५३१ ॥ व्याख्या -- पूर्वदक्षिणा अपरदक्षिणा अपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि त्रिकं त्रिकं भवति सन्निविष्टं तु, आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिग्रइये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिगूद्रये प्रत्येकं भवन्तीति गाथार्थः ॥ ५६७ ॥ तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आह
एतं महिडियं पणिवयंति ठियमवि वयंति पणमंता । णवि जंतणा ण विकहा ण परोप्पर मच्छरो ण भयं ॥ ५६२ ॥ व्याख्या - येsस्पर्द्धयः पूर्व स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्द्धिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि यन्त्रणा पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात् इति गाथार्थः ॥ ५६२ ॥ एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः, यत आहविइयंमि होंति तिरिया तइए पागारमन्तरे जाणा । पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा ॥ ५६३ ॥
व्याख्या - द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येकं मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तःश्चके इति गाथार्थः ॥ ५६३ ॥ द्वारम् १ | द्वितीयद्वारावयवार्थमभिधित्सुः संबन्धगाथामाह---
Education intemational
For Fasten
www.janbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~28~